શ્રીમદ્ભાગવતપુરાણ
अथ तृतीयोऽध्यायः
श्रीशुक उवाच
एवमेतन्निगदितं पृष्टवान्यद्भवान्मम
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् १
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम्
इन्द्र मिन्द्रि यकामस्तु प्रजाकामः प्रजापतीन् २
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम्
वसुकामो वसून्रुद्रा न्वीर्यकामोऽथ वीर्यवान् ३
अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान्
विश्वान्देवान्राज्यकामः साध्यान्संसाधको विशाम् ४
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ५
रूपाभिकामो गन्धर्वान्स्त्रीकामोऽप्सर उर्वशीम्
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ६
यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम्
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ७
धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन्पित्न्यजेत्
रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान् ८
राज्यकामो मनून्देवान्निरृतिं त्वभिचरन्यजेत्
कामकामो यजेत्सोममकामः पुरुषं परम् ९
अकामः सर्वकामो वा मोक्षकाम उदारधीः
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् १०
एतावानेव यजतामिह निःश्रेयसोदयः
भगवत्यचलो भावो यद्भागवतसङ्गतः ११
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम्
आत्मप्रसाद उत यत्र गुणेष्वसङ्गः
कैवल्यसम्मतपथस्त्वथ भक्तियोगः
को निर्वृतो हरिकथासु रतिं न कुर्यात् १२
शौनक उवाच
इत्यभिव्याहृतं राजा निशम्य भरतर्षभः
किमन्यत्पृष्टवान्भूयो वैयासकिमृषिं कविम् १३
एतच्छुश्रूषतां विद्वन्सूत नोऽर्हसि भाषितुम्
कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् १४
स वै भागवतो राजा पाण्डवेयो महारथः
बालक्रीडनकैः क्रीडन्कृष्णक्रीडां य आददे १५
वैयासकिश्च भगवान्वासुदेवपरायणः
उरुगायगुणोदाराः सतां स्युर्हि समागमे १६
आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया १७
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे १८
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः १९
बिले बतोरुक्रमविक्रमान्ये न शृण्वतः कर्णपुटे नरस्य
जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः २०
भारः परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम्
शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा २१
बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये
पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ २२
जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु
श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम् २३
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः २४
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः
यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः २५
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे तृतीयोऽध्यायः ३