अक्षरब्रह्मधारा

 

मङ्गलम्

गुणातीतं गुरुं प्राप्य ब्रह्म रूपं निजात्मनः।

विभाव्य दासभावेन स्वामिनारायणं भजे॥ ५६॥

ब्राह्मी स्थितिर्यतः सिद्ध्येत् प्राकट्यं परब्रह्मणः।

ब्रह्माऽक्षरं गुरुं वन्दे साक्षात् सिद्धान्तरूपिणम्॥ ५७॥

अक्षरब्रह्मविवरणप्रतिज्ञा

स्वामिनारायणेत्यत्र स्वामिशब्देन बोधितम्।

ब्रह्माऽक्षरं परेशाऽन्यसर्वाऽधिपत्वहेतुना॥ ५८॥

सविस्तरं तदेवेह सप्रमाणं निरूप्यते।

यद्विज्ञानाद् विजानीयात् तत्परं पुरुषोत्तमम्॥ ५९॥

परब्रह्मणाऽक्षरब्रह्मोद्घोषः

वेदवेदान्तशास्त्रेषु प्रच्छन्नं गूढमक्षरम्।

प्रथममुज्जुघोषाऽत्र स्वामिनारायणो भुवि॥ ६०॥

स्वयमक्षरब्रह्मणाऽक्षरब्रह्मोद्घोषः

स्वीयोपदेशवार्तासु गुणातीतेन ब्रह्मणा।

स्वरूपं स्वयमेवोक्तं तस्माद् ब्रह्म प्रमाणितम्॥ ६१॥

ब्रह्मज्ञानस्याऽऽवश्यकता

परोपासनसिद्ध्यर्थं ब्रह्मभावाऽऽप्तये तथा।

निर्विघ्नभक्तिसम्पत्त्यै ब्रह्मज्ञानमपेक्षितम्॥ ६२॥

अक्षरब्रह्मेतिशब्दयोः व्युत्पत्तिलभ्योऽर्थः

अश्धातोर्व्यापनार्थाद्धि नञ्पूर्वात्क्षरतेस्तथा।

व्युत्पन्नोऽक्षरशब्दोऽयं ब्रह्मण्येव प्रयुज्यते॥ ६३॥

सर्वजीवेश्वरेभ्यश्च मायातन्मुक्ततस्तथा।

बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मेत्यक्षरमुच्यते॥ ६४॥

तत्परः परमात्माऽस्ति परब्रह्मेति शब्दितः।

शब्दसमयमाश्रित्य मुख्यार्थ उपवर्णितः॥ ६५॥

शास्त्रेषु अक्षरब्रह्मेतिशब्दयोः उपादानम्

क्वचिद् ब्रह्माऽक्षरं क्वाऽपि क्वचित् तदुभयं सह।

वेदैश्च वैदिकैश्चैव श्रावितं स्मारितं भृशम्॥ ६६॥

अक्षरब्रह्मलक्षणम्

परस्माद् ब्रह्मणो भिन्नं तदेकाधीनतायुतम्।

नित्यमेकं गुणातीतं मायाधिपं च चेतनम्॥ ६७॥

श्रेयोऽनन्तगुणैर्युक्तं मायादोषविवर्जितम्।

बृहत्त्वात् सगुणं प्रोक्तं सूक्ष्मत्वान्निर्गुणं तथा॥ ६८॥

उपादानं निमित्तं च तद्धि सर्जनकारणम्।

आधारो व्यापकं सृष्टेरन्तर्यामि नियामकम्॥ ६९॥

(मुण्डके) अक्षरं न पुरुषविशेषणमिति प्रतिपादनम्

अक्षरं न परं ब्रह्म परा ययेत्युपक्रमे।

अक्षरं पुरुषं ह्यत्र न पुरुषविशेषणम्॥ ७०॥

तत्रैव श्रवणादग्रे ह्यक्षरात् परतः परः।

अतोऽक्षरं तु ब्रह्मैव तत्परः पुरुषोत्तमः॥ ७१॥

प्रश्नोपनिषदुक्तब्रह्मशब्दविमर्शः

पराऽपरेतिभेदोक्तेर्ज्ञायेते ब्रह्मणी ह्युभे।

विभातः पञ्चमे प्रश्ने ह्यक्षरपुरुषोत्तमौ॥ ७२॥

गीतोक्ताक्षरब्रह्मशब्दाऽर्थनिर्णयः

प्रार्थितमष्टमाऽऽरम्भे किं तद् ब्रह्मेति भावतः।

तत्रोत्तरेऽक्षरं प्रोक्तं परं जीवेश्वरादितः॥ ७३॥

षष्ठ्या स्फुटं पृथग्भावो मम धामेति वाक्यतः।

परमाऽक्षरवाच्यत्वं नैव स्यात् परब्रह्मणः॥ ७४॥

अन्यथा संगतिर्न स्यात् पञ्चदशविरोधतः।

उत्तमपुरुषाऽन्यत्वं न सिध्येत् परमात्मनः॥ ७५॥

ब्रह्मणो हि प्रतिष्ठाहमित्यादि सङ्गतं भवेत्।

नाऽतो जीवसमष्ट्याख्यं नैव मुक्तात्मवाचकम्॥ ७६॥

अतः परात्मभिन्नेभ्यः सर्वेभ्यो यत् परं सदा।

तदेवाऽक्षरवाच्यं स्याद् अष्टमे कृष्णभाषणे॥ ७७॥

पञ्चदशेऽपि मुक्तानां जीवेश्वरात्मनां तथा।

ग्रहो नाऽक्षरशब्देन क्षरेऽन्तर्भवनादिह॥ ७८॥

अक्षरत्वं तु नित्यं हि निराबाधमपेक्षितम्।

मुक्तानामप्यचिद्योगात् पूर्वमतः क्षरत्वधीः॥ ७९॥

नित्यमुक्तोऽपि नास्तीति सर्वे क्षरत्वभाजिनः।

एवं गीतासु जानीयाद् अक्षरब्रह्मयोजनाम्॥ ८०॥

अथातो ब्रह्मजिज्ञासेत्यत्र ब्रह्मपदाऽर्थः

श्रुतिभिः श्राविते भूरि स्मृतिभिः स्मारिते भृशम्।

ब्रह्मसूत्रप्रतिज्ञाने जिज्ञासिते तु ब्रह्मणी॥ ८१॥

कठोपनिषत्स्थाऽव्यक्तशब्दाऽर्थनिर्णयः

अव्यक्तं न प्रधानं स्याच्छरीरं न महत्परम्।

रूपकादेश्च गीतोक्तेः कठे ह्यव्यक्तमक्षरम्॥ ८२॥

ब्रह्मपरब्रह्मसम्बन्धः

उपास्योपासकत्वं स्यात् सम्बन्धो दासभावतः।

परं ब्रह्म सदोपास्यम् अक्षरं तदुपासकम्॥ ८३॥

अहिकुण्डलवत्त्वं न तेजस्तेजस्विता नहि।

अक्षरं दासभावेन नित्यं सेवासमर्पितम्॥ ८४॥

जीवानामीश्वराणां च मुक्तानां दासभावतः।

ब्रह्मणः स विशेषः स्याद् नित्यं तस्य निरञ्जनात्॥ ८५॥

सेतून्मानादिहेतुभ्यो भिन्नः परोऽक्षराद्धरिः।

स्वरूपैश्च स्वभावैश्च गुणैश्वर्यादितस्तथा॥ ८६॥

अक्षरब्रह्मणश्चतुर्विधता

चतुर्धाऽवस्थितिर्ज्ञेया कार्यभेदान्न तत्त्वतः।

मुक्तिसृष्टिलयाद्यर्थम् एकस्यैवाऽक्षरस्य तु॥ ८७॥

चिदाकाशस्तथा देशस्तद्देशस्थश्च सेवकः।

गुरुर्ब्रह्मस्वरूपश्च चतस्रो ब्रह्मणो विधाः॥ ८८॥

आद्यत्रयं सदैवैकं गुरुरूपं च बहूवपि।

इति संख्याविवेकोऽयं विज्ञेयो ब्रह्मवेदने॥ ८९॥

चिदाकाशरूपमक्षरं ब्रह्म

छान्दोग्ये दहराऽऽकाशश्चिदाकाशः प्रकीर्तितः।

सकलहृद्‌गुहावर्ती यदन्तः पुरुषोत्तमः॥ ९०॥

न चाऽयं भौतिकाऽऽकाशस्तज्जन्म श्रूयते यतः।

नाऽऽत्माऽपि प्रकृतस्तत्र नैव परात्मसम्भवः॥ ९१॥

दहरे ह्युपदिष्टा ये दिव्यास्ते ब्रह्मणो गुणाः।

तेषामात्मनि सम्पत्त्यै पुनराह प्रजापतिः॥ ९२॥

द्वा सुपर्णेतिसंप्रोक्तं प्रत्यगात्माऽक्षरद्वयम्।

ऋतपानश्रुतौ ह्येवं मुक्ताऽऽत्माऽक्षरब्रह्मणी॥ ९३॥

तदेव याज्ञवल्क्योक्तौ गार्गीप्रश्नोत्तरे स्थितम्।

निखिललोककालादेर्ब्रह्माक्षरं प्रशासकम्॥ ९४॥

चेतनप्रकृतेर्देहो मुक्तस्योक्तो वचोऽमृते।

सर्वचेतयितृत्वं च ब्रह्माऽतः प्रकृतिः परा॥ ९५॥

दिव्यधामरूपमक्षरं ब्रह्म

ब्रह्मेशः सहजानन्दः स्वयं ब्रह्माऽक्षरं तथा।

मुक्ताश्च यत्र तिष्ठन्ति ह्यक्षरधाम कीर्तितम्॥ ९६॥

कालातीतं गुणातीतं प्रकाशवदमायिकम्।

ब्रह्मभूतैकलभ्यं तद् अनुपममनुत्तमम्॥ ९७॥

लोको धाम परं व्योम सद्म च निलयः पदम्।

शब्दैस्तु विविधैः प्रोक्तमक्षरं ब्रह्म विश्रुतैः॥ ९८॥

विदेहमुक्त्यवस्थायामर्चिरादिपथेन तत्।

लभन्ते भक्तिमन्तश्च तद् धामाऽनुग्रहाद्धरेः॥ ९९॥

अष्टमे पदधामभ्यां पञ्चदशे तथैव च।

स्थानविशेषमेवोक्तम् उपक्रमादिलिङ्गतः॥ १००॥

प्रोक्तं यन्मम धामेति विष्णोस्तत्परमं पदम्।

तस्मादनेन वाक्येन श्रुत्यर्थ उपबृंहितः॥ १०१॥

मनुष्याकारतस्तद्धि साकृतिकं भवेत् सदा।

तस्य चतुर्षु पार्श्वेषु नैकब्रह्माण्डसंस्थितिः॥ १०२॥

विदेहमुक्त्यवस्था तु ज्ञानस्थितिर्न केवला।

भवेदुपस्थितिर्धाम्नि मुक्तात्मनो ध्रुवं तदा॥ १०३॥

सर्वज्ञं सच्चिदानन्दं निष्पापमिति चेतनम्।

जडे न ज्ञानपापादि तस्मान्नाऽचेतनं पदम्॥ १०४॥

नास्त्यपरः परो लोको ह्यस्माद्ध्यक्षरधामतः।

यतो विराजते नित्यम् अत्र पराऽक्षरात् परः॥ १०५॥

सकलेष्वपि वेदेषु यतिभिर्ऋषिभिस्तथा।

चर्यां ब्रह्मणि वाञ्छद्भिरक्षरधाम कीर्तितम्॥ १०६॥

धामस्थसेवकरूपमक्षरं ब्रह्म

सहजानन्दसेवायां धाम्नि यद् राजते सदा।

साकृति चेतनं ह्येकं सर्वाङ्गदिव्यविग्रहम्॥ १०७॥

ईशेऽसौ पुरुषः प्रोक्तमत्रैतदिति मुण्डके।

परमव्योमशब्देन तैत्तिरीये प्रकीर्तितम्॥ १०८॥

सिसृक्षुः सहजानन्दः प्रथमतस्तदीक्षते।

तदपि मुक्तवृन्दं च ह्येवं तत् सृष्टिकारणम्॥ १०९॥

गुरुरूपमक्षरं ब्रह्म

चिदाकाशममूर्तत्वात् सूक्ष्मत्वात्प्राप्नुयात् कथम्।

धामाऽपि तमसः पारं सुदूरं सुलभं न हि॥ ११०॥

धाम्नि सेवकरूपं यत् तदपीह सुदुर्लभम्।

अतो मनुष्यरूपेण सुलभमक्षरं नृणाम्॥ १११॥

सुकरो येन तत्सङ्गः साधारणैर्जनैरपि।

सारल्यं ब्रह्मणो मार्ग आनन्दो दर्शनादिके॥ ११२॥

नश्यति सर्वतो दुःखं संसारश्च निवर्तते।

प्राप्तिर्हि परमेशस्य सर्वं सुखं सुखं सदा॥ ११३॥

गुरुरक्षरब्रह्मैव दिव्यो दिव्यतनोर्धरः।

नारायणस्वरूपं च सम्प्रदायाऽभिरक्षकः॥ ११४॥

परमात्मा तु तत्रैव सम्यक् सदा विराजते।

स्वप्राकट्याऽनुभूत्यर्थं नृणां भक्ताऽनुकम्पया॥ ११५॥

यथा ब्रह्मगुरौ वासः स्वामिनारायणप्रभोः।

नैवाऽन्यत्र तथा क्वापि पात्राणां तारतम्यतः॥ ११६॥

नारायणस्वरूपत्वाद् ध्येयो ब्रह्माऽक्षरं गुरुः।

नित्यमास्ते यतस्तस्मिन् सम्यङ्नारायणो हरिः॥ ११७॥

ब्रह्माऽवतरणं नो चेद् एजनप्राणनादिकम्।

श्रुत्युक्तं व्यर्थतां गच्छेद् व्यर्था स्याद् वरणीयता॥ ११८॥

ब्राह्मी स्थितिश्च गीतोक्ता न सिध्येद् मोहमर्दिनी।

विषादतादवस्थ्यं स्याल्लुप्येत् प्रसन्नताकथा॥ ११९॥

ब्रह्म मानवरूपेण जायत इति बुध्यते।

आदर्शं तन्मुमुक्षूणां जीवनवर्तनादिषु॥ १२०॥

जन्म कर्म सदा दिव्यम् अक्षराधिपतेर्यथा।

तथैव तु विजानीयाद् ब्रह्माऽक्षरगुरोरिह॥ १२१॥

प्रयोजनं निमित्तादि रीतिश्च कालनिर्णयः।

सहजानन्दवज्ज्ञेयं नित्यमायेशब्रह्मणः॥ १२२॥

प्रस्थानचतुष्टयेऽक्षरब्रह्मघोषः

वेदान्ते व्याससूत्रे च गीतायां वचनामृते।

प्रस्थानेषु चतुर्ष्वोतो ब्रह्मघोष इहोच्यते॥ १२३॥

वचनामृतेऽक्षरब्रह्मघोषः

त्यक्त्वा देहादिभावांश्च कृत्वाऽऽत्मब्रह्मभावनाम्।

कार्या साक्षाद्धरेर्भक्तिस्तद्रहो वचनामृते॥ १२४॥

तस्माद्धि स्वोपदेशेषु तद्रहस्याऽनुसारतः।

अक्षरं घोषितं भूरि संक्षेपादिह दर्श्यते॥ १२५॥

व्यापकं सच्चिदानन्दं चिदाकाशं च सेवकम्।

प्रकृतिपुरुषोत्कृष्टं निर्विकल्पसमाधिगम्॥ १२६॥

सृष्ट्यर्थं प्रथमां दृष्टिं परमात्मकृतां धरत्।

चिदाकाशतया प्रोक्तं सर्वेषां कारणं तथा॥ १२७॥

न विकासो न संकोचो नित्यं यस्यैकरूपता।

सदैव धामरूपेण मूर्तिमच्च महत्तमम्॥ १२८॥

यत्सहितं परं ब्रह्म पृथिव्यां हि विराजते।

गढडाप्रथमोक्तौ स्यादेवं ब्रह्मनिरूपणम्॥ १२९॥

प्रेरकं सूर्यचन्द्रादेर्मायिकोपाधिवर्जितम्।

सारङ्गपुरवाक्येषु ब्रह्मोक्तं ज्ञानिलक्षणे॥ १३०॥

यत्र सन्नेव सर्वत्र हरिर्व्याप्नोति सर्जने।

कारियाण्यां ब्रह्म गीतं लयभूः प्रकृतेः परम्॥ १३१॥

भक्त्यधिकारिताघोषे ह्युत्तमे निर्विकल्पके।

निश्चये ब्रह्म संप्रोक्तं लोयाग्रामवचोऽमृते॥ १३२॥

यच्च भगवतो धाम गोलोकादिपरं सदा।

अत्यधिकं सुखं यस्य हरिमाहात्म्यवर्णने॥ १३३॥

सदा साकृतयो यत्र हरिर्भक्ता हरेस्तथा।

प्रलयेऽपि विराजन्ते पञ्चाळायां प्रकीर्तितम्॥ १३४॥

ब्रह्मज्ञानोपदेशे च ज्ञानयज्ञनिरूपणे।

लक्ष्यदर्शनवार्तायां सांख्ययोगज्ञबोधने॥ १३५॥

हेमस्त्रीबन्धनाशोक्तावात्मनिष्ठाप्रकाशने।

गढडामध्यवाक्येषु ब्रह्माऽक्षरं प्रबोधितम्॥ १३६॥

वाडवाग्निसमः सिद्धः परमैकान्तिकस्तथा।

हरिरिवैव सेव्यो हि यत्प्रीतिर्दर्शयेत् परम्॥ १३७॥

सत्पुरुषस्तथा यत्र विषयाणां सुखं भवेत्।

नरकस्येव तद्धाम वरतालोक्तिदर्शितम्॥ १३८॥

व्याख्यायां श्रेष्ठभक्तस्य गीतोक्तज्ञानिलक्षणे।

अमदावादवाक्येषु ब्रह्मबोधः प्रकाश्यते॥ १३९॥

सर्वार्थसिद्ध्युपाये हि दयाप्रीतिनिरूपणे।

शास्त्रसिद्धान्तसारे च पञ्चभेदप्रबोधने॥ १४०॥

भगवत्तुल्यसेव्यं च यत्र सतोऽन्वयो हरेः।

ब्रह्म परनियम्यं यद् गढडाऽन्त्योक्तिबोधितम्॥ १४१॥

भगवन्निश्चयोक्तिषु ह्यसाधारणलक्षणे।

प्रजापत्यादिदोषोक्ताववशिष्टे वचोऽमृते॥ १४२॥

प्रकरणेष्वनुस्यूतं सर्वत्र वचनामृते।

सस्मार सहजानन्द इत्थं ब्रह्माऽक्षरं मुहुः॥ १४३॥

उपनिषत्स्वक्षरब्रह्मघोषः

अक्षरं विविधै रूपैः स्वभावैश्च गुणादिभिः।

यथोपनिषदि प्रोक्तं तथोच्यते प्रधानतः॥ १४४॥

एजनं नैजनं हीशे दूरं यच्चाऽन्तिके सदा।

पर्यायो ब्रह्मलोकस्य केने स्वर्गः प्रयोजितः॥ १४५॥

सर्वैरामननं वेदैरालम्बनं परं तथा।

सेतुः पदं परं विष्णोर्व्यक्तमव्यक्तसंज्ञया॥ १४६॥

सूर्यचन्द्राद्यभासित्वं सर्वेषां भासनं यतः।

एवं ब्रह्मप्रकाशोऽयं कठे कण्ठरवायितः॥ १४७॥

विरजो ब्रह्मलोकादि परममक्षरं स्फुटम्।

ॐकारबोधितं ब्रह्म प्रश्ने जीवघनात् परम्॥ १४८॥

परयाऽधिगमो यस्य गुरुरूपाऽक्षरं सदा।

एजत्प्राणदिति श्रुत्वा मनुष्याकारनिश्चयः॥ १४९॥

धनुर्लक्ष्यामृतं सेतुः सूर्याद्यभासि पूर्ववत्।

पुरः पश्चादध ऊर्ध्वं चिदाकाशस्य वर्णनम्॥ १५०॥

ब्रह्मधाम परं शुभ्रं नामरूपविमुक्तभूः।

मुण्डकं मण्डितं पूर्णमक्षरब्रह्मगुञ्जनैः॥ १५१॥

ॐमिति कीर्तितं दिव्यमक्षरं सर्वकारणम्।

भूतं भवच्च भव्यं च सर्वं यदात्मकं सदा॥ १५२॥

त्र्यवस्थीतरणायैव ब्रह्मैक्यभरणाय च।

परात्मनि प्रवेशाय माण्डूक्ये ब्रह्मचिन्तनम्॥ १५३॥

ब्रह्मविदः परप्राप्तिः सत्यज्ञानादिलक्षणम्।

विपश्चिद्धाम्नि सेवास्थं तैत्तिरीये च घोषितम्॥ १५४॥

ऐतरेयस्य मन्त्रेषु ब्रह्मणः स्थानरूपता।

सप्रज्ञमुक्तधामत्वं स्वर्गादिशब्दवर्णितम्॥ १५५॥

ॐकाराऽक्षरमुद्‌गीथं ब्रह्मधामाऽभयाऽमृतम्।

ब्रह्म गमयतीत्युक्तं पथाऽर्चिरादिना भृशम्॥ १५६॥

सच्छब्दवाच्यता षष्ठे तच्छब्दवाच्यता पुनः।

सप्तमे भूमविद्यायां ब्रह्मदृष्टिश्च गीयते॥ १५७॥

आकाशो दहरोऽन्तःस्थो यदन्तः पुरुषोत्तमः।

सत्यं ब्रह्मपुरं यस्मिन् कामाः सर्वे समाहिताः॥ १५८॥

कृताऽऽत्मनाऽभिसंपाद्यः पुनरावर्तनं नहि।

ब्रह्मलोको हि छान्दोग्ये छन्दोभिर्विनिरूपितः॥ १५९॥

प्रजापत्यादिलोका य ओताः प्रोताश्च धामनि।

आनन्दो ब्रह्मलोकस्य सर्वलोकाऽतिगः परः॥ १६०॥

इहैव ब्रह्मभावाऽऽप्तिरत्र ब्रह्म समश्नुते।

स्वर्गशब्देन वाच्यत्वं हृदयाऽऽकाशता पुनः॥ १६१॥

विपापो विरजः सम्राड् ब्रह्मलोकः सुकीर्तितः।

बृहदारण्यकं ब्रूते बृहद् ब्रह्मप्रशासनम्॥ १६२॥

ब्रह्मोडुपोपमं प्रोक्तं परमव्योमसंज्ञितम्।

सूर्यचन्द्राद्यभासित्वं कठमुण्डकवत्पुनः॥ १६३॥

यथा देवे परा भक्तिर्गुरौ प्रत्यक्षब्रह्मणि।

प्रकाशः सकलार्थानां श्वेताश्वतरदर्शितः॥ १६४॥

सर्वासूपनिषत्स्वित्थम् अक्षरं ब्रह्म कीर्तितम्।

ग्रथितं तत्समासेन भाष्ये तद्विस्तरः स्थितः॥ १६५॥

एवमापाततो ब्रह्मयोगः प्रदर्शितो मुदा।

गूढमालोडनेऽवश्यम् आश्चर्यं बहुदर्शनात्॥ १६६॥

गीतायामक्षरब्रह्मघोषः

प्रथमे ब्रह्मभावस्य शून्यत्वेऽर्जुनमूढता।

अतः समग्रगीतायां ब्रह्मभावोपदेशनम्॥ १६७॥

द्वितीये हि समाधिस्थस्थितप्रज्ञनिरूपणे।

अध्यात्मचेतसेत्यादि तृतीयाध्यायकीर्तितम्॥ १६८॥

ज्ञानशब्दाऽभिधेयं तद् ब्रह्माऽर्पणादिबोधितम्।

प्रणिपातादिसेव्यं च तत्त्वदर्शीति कीर्तितम्॥ १६९॥

ब्रह्मणि नित्यप्राकट्यम् उपदेक्ष्यन्तिबोधनात्।

अक्षरब्रह्मयोगोऽयं चतुर्थे प्राप्यते भृशम्॥ १७०॥

सर्वभूताऽऽत्मभूताऽऽत्मा ब्रह्मविद् ब्रह्मयोगयुक्।

ब्रह्मनिर्वाणमित्यादिपदेषु पञ्चमे तथा॥ १७१॥

ब्रह्मसंस्पर्शमित्यादि योगफलनिरूपणे।

षष्ठे सुगदितं स्पष्टं योगिलक्षणकीर्तने॥ १७२॥

परप्रकृतिरूपत्वं तथा प्रणववाच्यता।

सप्तमे ब्रह्मशब्देन ज्ञानिनिरूपणे पुनः॥ १७३॥

अन्वर्थे वेदविद्वाणीगोचरीभूतमष्टमे।

अक्षरं भाति सुव्यक्तम् ॐ अव्यक्तादिभिः पुनः॥ १७४॥

नवमे ज्ञानयज्ञेन राजविद्याप्रबोधने।

परमप्राप्त्युपायेऽपि दशमे बुद्धियोगतः॥ १७५॥

आत्मभावस्थशब्देन प्राकट्यमपि कीर्तितम्।

एकादशेऽक्षरं प्रोक्तं विश्वस्वरूपदर्शने॥ १७६॥

परोपासनमात्रस्य श्रेष्ठत्वस्थापनाय च।

अव्यक्तमहिमा प्रोक्तो द्वादशे भक्तलक्षणम्॥ १७७॥

अनादि मत्परेत्यादिलक्षणैर्लक्षितस्य च।

त्रयोदशे कृतं क्लृप्तं चिदाकाशस्य रूपणम्॥ १७८॥

साधर्म्ये परमेशस्य ज्ञानोपाश्रयपूर्वके।

गुणातीतनिरुक्तौ च ब्रह्मस्मृतिश्चतुर्दशे॥ १७९॥

परितो मार्गणीयत्वं निर्मानमोहलभ्यता।

अभासमानताऽर्काद्यैर्यदनावृत्तिशीलता॥ १८०॥

धाम्नो भगवतः प्रोक्ता स्पष्टं पञ्चदशे स्थितिः।

क्षराऽतीताऽक्षरं ब्रह्म ह्यन्ते कूटस्थता पुनः॥ १८१॥

कामक्रोधादिमुक्तैस्तु प्राप्यभूता परा गतिः।

षोडशे मोक्षरूपोक्ता याऽलभ्या स्वैरवर्तिभिः॥ १८२॥

ॐ तत्सदिति शब्दैश्च ब्रह्मणः परमात्मवद्।

व्यपदेश ॐकारेण सप्तदशे प्रदर्शितः॥ १८३॥

ब्रह्माऽऽप्तिः सिद्धियुक्ताय ब्रह्मभूयस्त्वसंयुता।

भजने ब्रह्मभूतत्वमनिवार्यं प्रकीर्तितम्॥ १८४॥

सर्वाऽध्यायोपसंहारो ह्यष्टाऽधिके दशे पुनः।

ब्रह्मभावे कृतस्तस्माद् ब्रह्मभावाऽऽग्रहो भृशम्॥ १८५॥

ब्रह्माऽक्षरमनुस्यूतम् उक्तं संग्रहरूपतः।

संगतिर्विस्तरो युक्तिस्तद्भाष्ये परिदृश्यताम्॥ १८६॥

ब्रह्मसूत्रेऽक्षरब्रह्मघोषः

जिज्ञास्यं कारणं शास्त्राद् विद्यते यत्समन्वयः।

परेण सह ब्रह्मोक्तिश्चतुःसूत्र्यां प्रकाशते॥ १८७॥

सच्छब्दवाच्यतासिद्धिरशब्दखण्डने पुनः।

सर्वगतत्वमीशे यत् तत् सर्वत्रेति साधितम्॥ १८८॥

गुहामित्यादिना चैव सुखर्तपानकर्तृता।

अदृश्यत्वादिभिर्लिङ्गैरक्षरप्रतिपादनम्॥ १८९॥

द्युभ्वादीति पुनश्चैव मुण्डकोक्तिसमन्वयः।

भूमाऽधिकरणे गूढम् अक्षरे दहरे स्फुटम्॥ १९०॥

लिङ्गैरर्थाऽन्तरत्वाद्यैर्निर्वोढृत्वं प्रकीर्तितम्।

आकाशपदवाच्यस्य ब्रह्मणः प्रतिपादितम्॥ १९१॥

अव्यक्तशब्दवाच्यत्वम् आनुमानिकखण्डने।

आकाशकारणत्वं च निर्बीजसांख्यखण्डने॥ १९२॥

ब्रह्मद्वयात्मकत्वस्य प्रकृतौ तु प्रसाधने।

अनवकाशदोषाऽऽख्यप्रसंगाऽऽपत्तिवारणे॥ १९३॥

कार्यकारणभावस्य वैलक्षण्येऽपि बोधने।

भोक्त्राऽऽपत्तिनिरासे च कार्याऽनन्यत्वसाधने॥ १९४॥

अधिकमिति भेदस्य निर्देशोऽस्ति स्वरूपतः।

क्षीरवद्धीति सिद्धा स्यात् कारणस्य विशेषता॥ १९५॥

कृत्स्नप्रसक्तिरूपाणां दोषाणां वारणं भवेत्।

श्रुतेस्तु शब्दमूलत्वादित्याद्यसूत्रयन्मुनिः॥ १९६॥

सर्वकरणयुक्तत्वं सर्वोपेतेति साधितम्।

प्रतिज्ञाऽहानिरित्यादौ तेजोऽधिकरणे तथा॥ १९७॥

परतन्त्राऽधिकारे च परात्तु तच्छ्रुतेरिति।

त्रिवृत्कुर्वत इत्यादौ कारणत्वप्रसाधने॥ १९८॥

सुषुप्तेश्च प्रबोधस्य सत्सम्पत्तेः प्रबोधने।

पूर्ववद्वेति संसर्ग-बोधेऽक्षरपरात्मनोः॥ १९९॥

परमात्मपरत्वोक्तौ पराधिकरणे पुनः।

सकलैरपि वेदान्तैः प्रत्ययस्य प्रसाधने॥ २००॥

आनन्दाद्युपसंहारे ह्यात्मगृहीतिबोधने।

सम्बन्धस्य विशेषत्वे विद्यायां पुरुषस्य च॥ २०१॥

साम्परायाऽधिकारे च गतिनियमवर्णने।

अक्षरध्यधिकारे तद् अन्तराऽधिकृतौ तथा॥ २०२॥

व्यतिहारे विधातव्ये निर्धाराऽभावबोधने।

तद्‌भावभावितोक्तौ च प्रतिवेदं च संस्मृतौ॥ २०३॥

पुरुषार्थाऽधिकारेऽपि तथाऽधिकोपदेशतः।

ऐहिकाधिकृतौ मुक्तौ मुक्तिफलप्रबोधने॥ २०४॥

आवृत्तेरसकृद्‌बोधे तथाऽऽत्मेतीति चिन्तने।

ब्रह्मदृष्टिविधौ चैव परसम्पत्तिसाधने॥ २०५॥

तदोकोऽग्रेति सूत्रेण भक्तोत्क्रान्तेर्निरूपणे।

अर्चिरादितया शास्त्रे प्रथिताया गतेस्तथा॥ २०६॥

मुक्तैश्वर्यगुणादेश्च विग्रहादेः प्रकाशने।

प्रसङ्गे मुक्तभोगानाम् अनावृत्तिप्रसाधने॥ २०७॥

जिज्ञासासूत्रमारभ्य ब्रह्मविद्यानिरूपके।

सकले सूत्रशास्त्रे तु ब्रह्मघोषो मुहुर्मुहुः॥ २०८॥

इदं संक्षिप्य संप्रोक्तं सूत्रशैल्या मिताऽक्षरैः।

विस्तरोऽस्य तु तद्‌भाष्याद् अधिगम्यो बुधैर्मुदा॥ २०९॥

तादृगुपनिषन्नास्ति गीताऽध्यायो न विद्यते।

अध्यायो ब्रह्मसूत्रे च प्रकरणं वचोऽमृते॥ २१०॥

ब्रह्माऽक्षरस्य दिव्यस्य यद्धि योगं विना भवेत्।

ब्रह्माऽतः संस्मरेन्नित्यं ब्रह्मभावाय भक्तये॥ २११॥

पाण्डित्ये खलु पर्याप्तः कण्ठपाठोऽपि केवलः।

विभाति संग्रहे सम्यक् साक्षाद् ब्रह्माऽक्षरं यतः॥ २१२॥

 

MENU