फलधारा
मङ्गलम्
यत्कारुण्यकणस्पर्शान्मुक्तिः करतलायते।
नारायणस्वरूपाय नमोऽस्तु भद्रकाङ्क्षया॥ ४८९॥
साधनं चेत् प्रसादाय प्रसादात्सर्वमाप्यते।
प्रसादाल्लभते मुक्तिं जीवन्नपि मृतोऽपि वा॥ ४९०॥
बन्धनमुक्त्योः स्वरूपम्
बन्धः सत्यस्तथा मुक्तिः सर्वजीवेश्वराऽऽत्मनाम्।
अनाद्यज्ञानतो बद्धाः साधनान्मुक्तिमाप्नुयुः॥ ४९१॥
मुक्तिर्हि स्वात्मब्रह्मैक्य-पूर्वकं दासभावतः।
भजनोपासनं प्रीत्या स्वामिनारायणप्रभोः॥ ४९२॥
सा पुनर्द्विविधा प्रोक्ता ब्रह्मस्थितिमतां ध्रुवा।
एका जीवत एव स्याद् अन्या च मरणादनु॥ ४९३॥
निवृत्तिरेव नो मुक्तिरवाप्तिस्तूच्यते तदा।
ब्रह्मभावयुता भक्तिरपूर्वा हि प्रजायते॥ ४९४॥
अक्षरपुरुषोत्तमाभ्यामतिरिक्तानां नित्यमुक्तत्वं नास्ति
द्वावेव नित्यमुक्तौ स्तो ह्यक्षरपुरुषोत्तमौ।
ताभ्यां भिन्नेषु सर्वेषु नाऽनादिमुक्तता मता॥ ४९५॥
जीवानामीश्वराणां च ह्यनादिबन्धनं दृढम्।
जनिमृतिप्रवाहान्तःपातित्वम् आदिशून्यकम्॥ ४९६॥
अतो न नित्यमुक्तत्वं नाऽनादिर्ब्रह्मरूपता।
कस्याऽपि लब्धमोक्षस्य जीवस्य वेश्वरस्य वा॥ ४९७॥
सादिरपि तु सा मुक्तिर्न निधनवती मता।
स्वामिनारायणानन्ददिव्यसम्पत्तिसंभृता॥ ४९८॥
यामवाप्य पुनर्नैव मायाबन्धनसम्भवः।
जीवतो दिव्यदेशे वा स्थितस्य चेतनाऽऽत्मनः॥ ४९९॥
जीवन्मुक्तिः
जीवतो ब्रह्मभावोक्तिः श्रूयते स्मर्यतेऽपि च।
ईशे कठे च मुण्डे च गीतासु वचनामृते॥ ५००॥
खण्डनं जीवतो मुक्तेः शास्त्रलोपाऽऽवहं भवेत्।
प्रत्यक्षजा प्रतीतिश्च विरुद्ध्येत् सर्वसाक्षिका॥ ५०१॥
विदेहमुक्तिः
देहपातोत्तरं लभ्या विदेहमुक्तिरुच्यते।
अक्षरधाम्नि भोग्येयं मूर्तिमद्ब्रह्मणा सह॥ ५०२॥
प्राप्य नवां तनुं ब्राह्मीं परात्माऽऽकारसंनिभाम्।
नित्यद्विभुजपादादि - दिव्यकरणसंयुताम्॥ ५०३॥
सर्वे मुक्ताः समाऽऽकारा न्यूनाधिकत्ववर्जिताः।
स्त्रीपुरुषत्वशून्याश्च क्षुधादिरहितास्तथा॥ ५०४॥
निमग्नाः सहजानन्दे प्रगाढाऽऽनन्दसेविताः।
कुर्वाणा ब्रह्मभावाऽऽढ्यां तद्भक्तिं दासभावतः॥ ५०५॥
मुक्तावपि तु मुक्तानां भेदोऽस्त्येव स्वरूपतः।
मिथश्चाऽक्षरतश्चैव पुरुषोत्तमतस्तथा॥ ५०६॥
स्थानदेहादिभेदाद्धि मुक्त्योरेतद् द्वयोरपि।
भेदेऽपि न फले भेदो न न्यूनाऽधिकताऽपि च॥ ५०७॥
न तत्र स्वेच्छया किञ्चिद् विहारनर्तनादिकम्।
नोपकरणरूपत्वं नैव च रमणादिकम्॥ ५०८॥
अवस्थानियमो नास्ति समयस्याऽपि नैव च।
क्रियाया नियमो नास्ति देशस्य नियमोऽपि न॥ ५०९॥
निमित्तनियमो नास्ति संसरदात्मनामिव।
भक्तस्य ब्रह्मरूपस्य प्रयतः स्वशरीरतः॥ ५१०॥
कालकर्माद्यवश्यश्च गुरुहरिवशं गतः।
ताभ्यामेवोह्यमानश्च मोदमानो हि गच्छति॥ ५११॥
गतिर्हि त्रिविधा प्रोक्ता ह्युत्तमा मध्यमाऽधमा।
तत्रोत्तमाऽर्चिरादिः स्याद् देवयानेति कीर्तिता॥ ५१२॥
मध्यमा पितृयाणः स्याद् धूममार्गेति कीर्तिता।
संयमनाऽधमा प्रोक्ता श्रुतौ स्मृतौ मुहुर्मुहुः॥ ५१३॥
भक्तानां ब्रह्मरूपाणाम् अक्षरपुरुषोत्तमौ।
देहपातोत्तरं स्यातां प्रमुखावातिवाहिकौ॥ ५१४॥
अर्चिर्मार्गस्थलोकेषु स्थित्वा स्वेच्छानुसारतः।
नयतोऽक्षरलोकं तम् अक्षरपुरुषोत्तमौ॥ ५१५॥
तत्तल्लोकाधिपत्ये च नियुक्ता ये च लोकिनः।
तेऽप्यातिवाहिका भूत्वा तत्पूजाऽर्चादि कुर्वते॥ ५१६॥
स्वर्गोऽस्ति नरकं चाऽपि विधिनिषेधशब्दतः।
कर्मफलोपभोगाय निर्मितं परमात्मना॥ ५१७॥
परात्मोपासनं मोक्षे मुक्तस्य वर्तते सदा।
मोक्षे साधनमात्रं न मोक्षरूपमुपासनम्॥ ५१८॥
पुत्राऽभिकाङ्क्षिणां पुत्रे धनाऽभिलाषिणां धने।
तन्मयतात्मलीनत्वं यथोद्रिक्ताऽनुरागतः॥ ५१९॥
यथाऽस्तेऽदर्शनं व्योम्नि नाशो नाऽर्कस्य विद्यते।
तथाऽस्तगमनोक्तीनां तात्पर्यमवधार्यते॥ ५२०॥
ऐश्वर्यं सर्वमुक्तानां सर्वज्ञत्वादिलक्षणम्।
परप्रसादतो लभ्यं जगद्व्यापारवर्जितम्॥ ५२१॥
ब्रह्मणा भोगमात्रेण मुक्तौ साम्यं प्रकीर्तितम्।
ब्रह्माऽक्षरं पराऽऽनन्दं भुङ्क्ते मुक्तस्तथेति तत्॥ ५२२॥
पुनरावर्तनं नैव लब्धमुक्तेः कदाचन।
ब्रह्मरूपस्य भक्तस्य परानन्दे निमज्जनम्॥ ५२३॥
सिद्धान्तसंग्रहेणैवं कारिका रचिता इमाः।
अभ्यासे मनने पाठे वादे महोपकारिकाः॥ ५२४॥