ईश्वरधारा

मङ्गलम्

ईश्वर ईश्वराणां यः सर्वाऽवतारकारणम्।

तमहं सहजानन्दं स्वामिनारायणं भजे॥ ४०४॥

भजन्ते विभवा व्यूहा दासदासाऽनुदासताम्।

यत्पुरस्तमहं वन्दे परममक्षरं गुरुम्॥ ४०५॥

ईश्वरलक्षणम्

ऐश्वर्यादीश्वरः प्रोक्तो जीवाद् भिन्नः स्वरूपतः।

ज्ञानं ज्ञाता च नित्यश्च मायाबद्धोऽस्त्यनादितः॥ ४०६॥

अत्यन्तमसमर्थोऽपि ब्रह्मणः परब्रह्मणः।

जीवाच्छ्रेष्ठतयोक्तोऽयमनाद्यैश्वर्यहेतुतः॥ ४०७॥

स्वकर्मफलभोक्ताऽयं ज्ञेयोऽच्छेद्यादिलक्षणः।

मोक्षाऽर्होऽनेकसंख्याकश्चेतनोऽणुः शरीरभाक्॥ ४०८॥

देहाऽवस्थाः

विराडथ च सूत्रात्मा तृतीयोऽव्याकृतस्तथा।

ईश्वरस्य त्रयो देहाः सहजानन्दबोधिताः॥ ४०९॥

उत्पत्तिश्च स्थितिश्चैव प्रलयश्चेति यत् त्रयम्।

तदवस्थास्तु विज्ञेया यया बद्धोऽनुतिष्ठति॥ ४१०॥

अन्वयो व्यतिरेकश्च जीववदस्य कीर्तितः।

अन्वितत्वं तनोर्बन्धात् तद्भेदाद् व्यतिरेकिता॥ ४११॥

ईश्वराऽन्तर्गताः

प्रधानपुरुषा नैक एकब्रह्माण्डशासकाः।

तत्प्रत्येकाऽऽधिपत्ये च ह्येको वैराज ईश्वरः॥ ४१२॥

प्रधानपुरुषाऽऽनन्त्यं वैराजाऽऽनन्त्यबोधकम्।

अतश्चतुर्मुखादीनाम् आनन्त्यं सम्भवाद् भवेद्॥ ४१३॥

ब्रह्माण्डा नैककोट्यः स्युस्तत्रैकस्मिन् नियोज्यते।

प्रधानपुरुषाऽऽख्योऽयम् ईश्वरः परमात्मना॥ ४१४॥

प्रधानपुरुषेत्याख्या प्रधानस्य प्रसङ्गतः।

स च सगुणब्रह्मेति संज्ञया व्यपदिश्यते॥ ४१५॥

प्रधानपुरुषोत्पन्ने सर्जने जायते विराट्।

प्रधानपुरुषादस्य चेतनं भिद्यते सदा॥ ४१६॥

वैराजनाभिजो ब्रह्मा विष्णुर्हृदयजः पुनः।

ललाटजो महेशश्च वैराजस्य सुतास्त्रयः॥ ४१७॥

प्रतिब्रह्माण्डमेताः स्युस्तिस्र ईश्वरदेवताः।

ब्रह्माण्डानामनन्तत्वाच् - चतुर्मुखाद्यनन्तता॥ ४१८॥

व्यूहास्तथेन्द्रचन्द्राद्या ये स्युरिन्द्रियदेवताः।

ईश्वराऽन्तर्गता ज्ञेया मुक्त्यर्हाश्चेतना इमे॥ ४१९॥

स्थूलसूक्ष्मशरीराऽऽप्तिस्तेषां परेच्छया भवेत्।

मोक्षोपाये हि सारल्यं भूयाद् ब्रह्मप्रसङ्गतः॥ ४२०॥

अवतारसिद्धान्तः

अवताराः प्रजायन्ते तत्तत्कार्यनिमित्तकाः।

जीवेश्वराऽऽत्मसु क्वापि हरेरनुप्रवेशनात्॥ ४२१॥

ब्रह्म धारयते साक्षात् सर्वत्र सर्वदा हरिम्।

अतो नाऽनुप्रवेशोऽत्र ब्रह्मणि ह्युपयुज्यते॥ ४२२॥

अनुप्रवेशनेनैव विभूतीनां विभूतिता।

अतो विभूतितो भिन्नं ब्रह्मोत्कृष्टं भवेत् सदा॥ ४२३॥

मुक्तेभ्योऽपि विभूतीनां ज्यायस्त्वं नैव युज्यते।

ब्रह्मरूपा यतो मुक्ताः सर्वाऽवतारिसेवकाः॥ ४२४॥

MENU