जीवधारा
मङ्गलम्
इच्छाज्ञानक्रियाशक्तेर्जीवानां यः प्रदायकः।
वन्दे तं मुक्तिदातारमक्षरपुरुषोत्तमम्॥ ३७०॥
जीवलक्षणम्
जीवयति स्वदेहं यो जीवति च स्वयं यतः।
तस्माद्धि चेतनाऽऽत्माऽयं जीव इति प्रकीर्तितः॥ ३७१॥
ज्ञानस्वरूपं ज्ञातृत्वं च
ज्ञानं हि द्विविधं ज्ञेयं स्वरूपं च गुणाऽऽत्मकम्।
स्वात्मस्वरूपमाद्यं तद् अन्यद् घटादिगोचरम्॥ ३७२॥
ज्ञानं निर्विषयं नैव सविषयं भवेत् सदा।
गुणात्मा भेदसंसर्गात् स्वरूपं तदभेदतः॥ ३७३॥
नित्यं तज्ज्ञानवत्त्वं न ज्ञानवत्त्वं तु सर्वदा।
ज्ञानसामान्यशून्यत्वम् आत्मनो नैव सम्भवम्॥ ३७४॥
बुद्धेः करणरूपत्वान्नैव स्याज्ज्ञानकर्तृता।
परधर्मस्य नाऽऽभासो ह्यात्मधर्मो यतस्तु सः॥ ३७५॥
अणुपरिमाणः
न विभुपरिमाणोऽयं मध्यमोऽपि न मन्यते।
अणुरेव तु मन्तव्यः श्रुत्या तथैव बोधनात्॥ ३७६॥
गत्यागत्यादिवाक्याच्च हृत्स्थत्वप्रतिपादनात्।
स्वनाशकृतहानादेरकृताऽभ्यागमादितः॥ ३७७॥
हृदयकुहरे तिष्ठन् व्याप्नोति ज्ञानशक्तितः।
निरवयवतायाश्च तन्निराकारतोच्यते॥ ३७८॥
त्रीणि शरीराणि
स्थूलमेकं तथा सूक्ष्मं तृतीयं कारणं मतम्।
तस्य त्रीणि शरीराणि यद्बन्धात् संसृतिं गतः॥ ३७९॥
चतुर्विधतया शास्त्रैः शरीरं स्थूलमुच्यते।
उद्भिज्जं स्वेदजं चैव ह्यण्डजं च जरायुजम्॥ ३८०॥
ज्ञानकर्मेन्द्रियादीनि तत्त्वान्येकोनविंशतिः।
सूक्ष्मस्थानि समुच्यन्ते यैः सममुत्क्रमो भवेत्॥ ३८१॥
प्रलये न लयो यस्य कारणं स्थूलसूक्ष्मयोः।
अनाद्यामुक्ति संश्लिष्टं मुक्तौ तु नाऽवशिष्यते॥ ३८२॥
एतद्देहत्रयाद् भिन्नो जीवात्माऽयं सनातनः।
लभते ब्रह्मलोके तु चतुर्थं ब्राह्मविग्रहम्॥ ३८३॥
पूर्वजन्म पुनर्जन्म
पूर्वजन्म पुनर्जन्म शास्त्रोक्त्या युक्तितस्तथा।
जीवानामीश्वराणां च सिध्यति भ्रमतां स्फुटम्॥ ३८४॥
अवस्थाः
यत्राऽवस्थाय भुज्यन्ते भोगा जीवेन जीवने।
पूर्वकर्माऽनुसारेण ता अवस्थाः प्रकीर्तिताः॥ ३८५॥
जागरणं तथा स्वप्नः सुषुप्तिश्चेति बुध्यते।
बद्धानां न तु मुक्तानां तेषां ब्रह्मणि संस्थितेः॥ ३८६॥
आद्या सत्त्वप्रधाना स्याद् रजोमुख्या तु मध्यमा।
तमोगाढा तृतीया च गुणत्रयप्रभावतः॥ ३८७॥
तूर्यावस्था स्थितिर्ब्राह्मी मुक्तिरूपा प्रकीर्तिता।
जीवतोऽपि भवेल्लभ्या जाग्रदादित्रयात् परा॥ ३८८॥
अन्वयित्वव्यतिरेकित्वे
स्थूलादिकत्रयैकात्म्यं जीवस्याऽन्वयिता भवेत्।
ततः पृथक्तयोक्तौ तु भवेत् तद्व्यतिरेकिता॥ ३८९॥
कर्तृत्वम्
कर्तृत्वमस्य विज्ञेयं शुभाऽशुभक्रियाः प्रति।
तच्च पुनः पराऽधीनं यतः स्यात् फलनिर्णयः॥ ३९०॥
इच्छाशक्तिः पराल्लब्धा ज्ञानशक्तिस्तथैव च।
क्रियाशक्तिः पराल्लब्धा जीवेन कृपया प्रभोः॥ ३९१॥
अंशप्रतिबिम्बादिवादविमर्शः
नांऽशोऽयं परिणामश्च निर्विशेषस्य ब्रह्मणः।
स्वरूपविकृतेर्दोषाद् घाताऽऽपत्तेश्च दूषणात्॥ ३९२॥
नैवाऽपि प्रतिबिम्बं स्याद् नित्यशुद्धपरात्मनः।
मायामलोऽन्यथा जीवे कथं दृश्येत वास्तवः॥ ३९३॥
परमात्मा परब्रह्म परमेश्वरशब्दतः।
जीवतो ब्रह्मतो नित्यम् ईश्वरतश्च सर्वदा॥ ३९४॥
भिन्नः श्रेष्ठो हरिः प्रोक्तस्तत्सकलनियामकः।
स एवोपास्यभूतो नः स्वामिनारायणः प्रभुः॥ ३९५॥
जीवनानात्वादिवर्णनम्
जीवा नाना तु विज्ञेयाः प्रत्यक्षभेदप्रत्ययात्।
भेदात् क्रियासुखादेर्हि गतेः फलादिकस्य च॥ ३९६॥
जन्म नास्ति मृतिर्नास्ति नित्य आत्मा सनातनः।
देहयोगविभागाभ्यां जातो मृतोऽयमुच्यते॥ ३९७॥
देहस्थो देहभिन्नोऽयं देहेन्द्रियप्रकाशकः।
देहादेस्तं विना नैव स्वकार्येषु प्रवर्तनम्॥ ३९८॥
देहस्तु क्षरणात् क्षेत्रं भोगस्याऽऽयतनं मतम्।
क्षेत्रज्ञताऽऽत्मनो ज्ञेया तज्जानातीति हेतुतः॥ ३९९॥
सुखी च सुखरूपोऽयं शास्त्रैर्हि परिकीर्तितः।
सुखाच्चाऽस्य समुत्कृष्टं सुखं ब्रह्मपरात्मनोः॥ ४००॥
दुःखाऽभावः सुखं नैव भिन्नो हि सुखप्रत्ययः।
सुखाऽवरोधकं दुःखं गते दुःखे भवेत् सुखम्॥ ४०१॥
जीवात्मा नित्यशुद्धोऽस्ति मायामलविवर्जितः।
आवरकाऽपि माया तु जीवाऽन्तर्नैव गच्छति॥ ४०२॥
न दैव आसुरो नित्यः कश्चिज्जीवो भवेद् भवे।
सङ्गादितश्च तद्भावः सर्वमोक्षाऽर्हता यतः॥ ४०३॥