स्वामिनारायणसिद्धान्तकारिकाः
(अक्षरपुरुषोत्तमदर्शनसंग्रहः)
मङ्गलधारा
मङ्गलम्
मङ्गलं सहजानन्दः श्रीहरिर्मङ्गलं शुभम्।
मङ्गलं नीलकण्ठो हि स्वामिनारायणः सदा॥ १॥
आदौ भक्त्यङ्गजन्मा गहनवनगतिर्नीलकण्ठस्वरूपे,
सिद्धान्तस्थापनार्थं स्थितिमतिदयया सम्प्रदायप्रतिष्ठाम्।
कृत्वा यागान् अहिंसान् सहजसुखकरान् त्यागिनो मन्दिराणि,
प्राकट्यं ब्रह्मणि स्वं सकलजनहिते स्थापयन् धाम यातः॥ २॥
एको देवः स्वामिनारायणोऽयम्
एको मन्त्रः स्वामिनारायणेति।
एको वेद्यः स्वामिनारायणोऽयम्
एकोपास्यः स्वामिनारायणो नः॥ ३॥
अक्षरपुरुषोत्तमवन्दना
स्वामिनारायणं नौमि ह्यक्षरपुरुषोत्तमम्।
स्वामिनारायणौ नौमि ह्यक्षरपुरुषोत्तमौ॥ ४॥
प्रमाणकारणं नौमि ह्यक्षरपुरुषोत्तमौ।
मायामुक्ताऽधिपौ नौमि ह्यक्षरपुरुषोत्तमौ॥ ५॥
सर्जनकारणं नौमि ह्यक्षरपुरुषोत्तमौ।
सर्वान्तर्यामिणौ नौमि ह्यक्षरपुरुषोत्तमौ॥ ६॥
जीवेश्वराधिपौ नौमि ह्यक्षरपुरुषोत्तमौ।
साधनशक्तिदौ नौमि ह्यक्षरपुरुषोत्तमौ॥ ७॥
परममुक्तिदौ नौमि ह्यक्षरपुरुषोत्तमौ।
प्रत्यक्षमङ्गलं नौमि ह्यक्षरपुरुषोत्तमौ॥ ८॥
सुधाशास्त्रसुलेखार्थं येनाऽहं प्रेरितो मुदा।
नारायणस्वरूपं तं प्रणौमि प्रमुखं गुरुम्॥ ९॥
यज्ञपुरुषस्तवः
सिद्धान्तपुष्पसुफलामृतदिव्यगन्धी
यस्माद् वसन्ततिलकश्च वसन्तजन्मा।
रूढो हि यज्ञपुरुषो भुवि तत्त्ववृक्षश्-
छन्दो वसन्ततिलका त्वरते सुगाने॥ १०॥
निश्चित्य ब्रह्मपरब्रह्मस्वरूपतत्त्वं
शास्त्राच्च सद्गुरुमुखात् स्वधिया सयुक्तिम्।
प्रायोजयत् सकलबुद्धिसुचातुरीं स्वां
ब्रह्माक्षरस्य खलु डिण्डिमभव्यघोषे॥ ११॥
कोलाहलश्च कलहश्च कुकर्मघाताः
सोढाः सुहासवदनेन प्रसादबुद्ध्या।
दुष्टा न क्वापि सरणी प्रतिकारभावात्
सिद्धान्तसत्यपरिरक्षणबद्धदृष्टेः॥ १२॥
ते पञ्च साधुनियमा ननु पञ्च दिव्या
ब्रह्माक्षरं तदधिपो हरिकृष्णदेवः।
एवं समादरधृतं परमुक्तिवर्त्म
ब्रह्माण्डजीवसकलभ्रमणाव्युदासे॥ १३॥
वार्तामुपासनपरां कुरुते नितान्तं
हृद्भेदिनीं हृदयनिर्झरणामृताढ्याम्।
अर्कागमावधितया गुरुगौरवेण
ब्रह्माक्षरस्य पुरुषोत्तमसर्वकर्तुः॥ १४॥
श्रीवर्धमानपुरभोगवतीतटस्थे
वृत्तालयस्थितिमता हरिधाम बद्धम्।
बोचासणे प्रमुखतीर्थकृता कृतानि
सारङ्गदुर्गनगरादिषु मन्दिराणि॥ १५॥
भिक्षाटनं प्रतिदिनं प्रभुरेकच्छत्रं
पाषाणद्रव्यसुजनातिविरक्तकालः।
न्यूनश्च साधुहरिभक्तगणस्तथापि
संस्थामहोऽयमकरोत् सुविरूढमूलाम्॥ १६॥
विश्वे ह्युपासनविधेः सुविकासहेतोर्-
आनन्दब्रह्म सततं सहजो हि योगी।
वात्सल्यमूर्तिसुखदश्च प्रसन्नचेताः
स्वैक्येन दिव्यसुगुणैः परिचायितोऽस्ति॥ १७॥
नैकात्मनः परममोक्षपथं विनेतुं
दीर्घेक्षणेन स्वधिया च विचक्षणोऽयम्।
उत्साहधैर्यकरुणारससन्निपातं
योग्याशिषा मम गुरुं प्रमुखं चकार॥ १८॥
नारायणस्वरूपाऽभिध्यानम्
नारायणस्वरूपोऽयं साक्षाद् ब्रह्माऽक्षरं गुरुः।
गुणाढ्यः प्रमुखः प्रेष्ठो भक्त्याऽभिध्यायते मया॥ १९॥
ब्रह्मासि सच्चिदानन्दो निर्विकल्पसमाधिमान्।
निरंशो निर्विकारोऽसि देहावस्थापरस्तथा॥ २०॥
अनादिकालतः सर्वमायिकोपाधिवर्जितः।
पञ्चसु वर्तमानेषु नित्यमखण्डितस्थितिः॥ २१॥
स्थितप्रज्ञः परो योगी निवृत्तोऽसि प्रवर्तने।
ज्ञानवाँश्च गुणातीतः प्रेष्ठोऽसि सर्वतो हरेः॥ २२॥
परमैकान्तिको भक्तो दिव्यभावरतः सदा।
निश्चयस्ते निरुत्थान उत्तमनिर्विकल्पकः॥ २३॥
ज्ञानयज्ञमयो नित्यं श्रीहर्याज्ञानुपालकः।
व्यत्येति त्वद्दिवारात्रं भगवत्कीर्तनादिषु॥ २४॥
श्रीहरिपरभावज्ञः सेव्योऽपि भगवानिव।
वर्तसे त्वं सदादासः स्वामिसेवकभावतः॥ २५॥
परमात्मस्वरूपस्य त्वं हि निश्चायको गुरुः।
अनादिकर्मजा माया त्वयैव तु विदार्यते॥ २६॥
यथावत् प्रभुमाहात्म्यं धर्म एकान्तिकस्तथा।
ब्रह्मभावः स्वसङ्गेन प्रस्थाप्यते मदात्मनि॥ २७॥
दिव्योऽसि मद्गुरुः साक्षात् त्वं परब्रह्मधारकः।
मोक्षो ब्राह्मी स्थितिश्चैव कराग्रे ते प्रसङ्गतः॥ २८॥
एवं ध्यात्वा त्वदाज्ञायामनुवृत्तौ च वर्तनम्।
सर्वथा सर्वदा भूयात् प्रार्थये भद्रभावतः॥ २९॥
शुद्धभावेन यो भक्तो ब्रह्ममन्ता भवेद् हृदा।
साक्षात्कुर्यात् परं ब्रह्म ब्रह्मरूपे निजात्मनि॥ ३०॥
अभ्यर्थना
ब्रह्मज्ञानविचारचारुविषयब्रह्माऽक्षराधीशयोः
सिद्धान्ताञ्जनहेतुयज्ञपुरुषे ब्रह्मस्वरूपे पुनः।
ग्रन्थाऽऽज्ञाकरणप्रफुल्लप्रमुखे प्रत्यक्षनारायणे
लेखारम्भमहोत्सवेऽभिरमतां दिव्या मतिर्मे शुभा॥ ३१॥
गुरुरेव मम ध्यानं व्याख्यानं मे गुरुः सदा।
गुरुरेव मम ज्ञानं सुगानं गुरुरेव च॥ ३२॥
महन्तस्वामिनं नौमि ब्रह्मविद्याप्रबोधकम्।
निर्वैरं परमं शान्तं कृपालुं मे गुरुं प्रियम्॥ ३३॥
शास्त्रे शास्त्रेऽतिभक्त्या त्वदभिहितवरे सम्प्रदायाऽर्थपुष्ट्यै।
वाक्ये वाक्ये त्वदीये सकलहितकरे सत्यसिद्धान्तदृष्ट्यै।
कार्ये कार्ये मदीये सततमहरहस्त्वत्सहत्वाऽनुभूत्यै।
श्वासे श्वासे ह्यभीक्ष्णं मम हृदयझरे वातु विश्वासनादः॥ ३४॥
यदेव पठ्यते नित्यं लिख्यते यद् विमृश्यते।
सप्रमाणं सुयुक्त्या च निर्णीय प्रतिपाद्यते॥ ३५॥
तत्तत्सिद्धान्तसर्वस्वं सम्प्रदायसुपोषणे।
द्रुमनिर्याससौरभ्यं प्रतिनाडीव वातु मे॥ ३६॥
श्रीमहन्तस्वरूपे हि नारायणस्वरूपधीः।
जायतामिति भावोऽयं सुधाग्रन्थविलेखने॥ ३७॥
तत्तत्प्रकरणौचित्याद् विषयबोधहेतुतः।
भाषितं यत् त्रयीभाष्ये तदेवेहाऽपि योजितम्॥ ३८॥
व्यर्थाऽभविष्यन्ननु ब्रह्मविद्या ब्रह्मैव चेदत्र न प्राऽभविष्यत्।
भाग्यं खलु ब्रह्म परश्च तस्मात्साक्षात्प्रभूतावथ सार्थिका सा॥ ३९॥
ब्रह्मब्रह्मपरौ प्रमाणशतकैर्मायाऽधिपौ कीर्तितौ
जीवात्मेश्वरकोटिवृन्दभरणौ सर्वाऽऽत्मभूतौ शुभौ।
ब्रह्माऽऽत्मैक्यप्रसादिताऽऽत्मविभवा यौ साधयन्ते मुदा
दिव्यौ मुक्तिकरौ स्मरामि सनति ग्रन्थोद्यमे मङ्गलौ॥ ४०॥
स्वामिनारायणेनेह सिद्धान्तो यः प्रकाशितः।
यश्चैव गुरुभिर्भूरि स्वोपदेशे दृढायितः॥ ४१॥
तमेव सर्वथा ध्यात्वा परिशुद्धेन चेतसा।
कुर्वे भद्रेशदासोऽहं सुधाग्रन्थं सुधामयम्॥ ४२॥
वचनामृतशास्त्रं यत् साक्षाद्धरिप्रबोधितम्।
उपनिषत् तथा गीता ब्रह्मसूत्रं तथैव च॥ ४३॥
सिद्धान्तस्थापनायेदं प्रस्थानानां चतुष्टयम्।
प्राधान्येन तु शास्त्रेऽस्मिन् तत्र तत्र समादृतम्॥ ४४॥
स्वाध्यायस्याऽऽनुकूल्याय मुहुरभ्यसनाय च।
श्लोकेषु संग्रहेणेह सिद्धान्तो ग्रथ्यते शुभः॥ ४५॥
स्वामिनारायणमन्त्राऽर्थः
श्रीहरिः सहजानन्दः स्वयमुपदिदेश यम्।
स्वामिनारायणं मन्त्रं गर्भितं ब्रह्मविद्यया॥ ४६॥
अक्षरं ब्रह्म विज्ञेयं मन्त्रे स्वामीति शब्दतः।
नारायणेति शब्देन तत्परः पुरुषोत्तमः॥ ४७॥
पञ्चतत्त्वप्रबोधनम्
जीवस्तथेश्वरो माया ब्रह्म परमब्रह्म च।
नित्याः सत्याः सदैवैते मिथो भिन्नाः स्वरूपतः॥ ४८॥
स्वामिनारायणेनैवं पदार्थाः पञ्च कीर्तिताः।
यज्ज्ञानात् कृत्स्नतां याति ब्रह्मविद्याऽपवर्गदा॥ ४९॥
ग्रन्थनामाऽभिधानतात्पर्यम्
स्वामिनारायणः साक्षादक्षरपुरुषोत्तमः।
निर्णीतार्थो हि सिद्धान्तः सुधा नामाऽमृतं शुभम्॥ ५०॥
सर्वेषां सन्निपातोऽत्र ग्रन्थे सुधामयस्ततः।
लभते पदवीं दिव्यां मर्त्यलोके सुधामयीम्॥ ५१॥
स्वामिनारायणोक्तानां सिद्धान्तानां निरूपणात्।
सुधामयोपदेशानां ब्रह्मविद्याप्रबोधिनाम्॥ ५२॥
स्वामिनारायणेत्यस्य ब्रह्मविद्याऽऽत्मकत्वतः।
यथोक्तेनाऽभिधानेन ग्रन्थोऽयं समलङ्कृतः॥ ५३॥
सत्यसिद्धान्तसर्वस्वं सहजानन्दबोधितम्।
अभ्यलिखत् स्वयं पत्रे स्वाऽक्षरैः प्रमुखो गुरुः॥ ५४॥
पत्रव्याख्यानरूपोऽयं सुधाग्रन्थो हि केवलम्।
तदुपदेशवाक्यानां स्यान्मननमहोत्सवः॥ ५५॥