मायाधारा

 

मङ्गलम्

त्रिगुणसाम्यवैषम्ये यदाधिपत्यसम्भवे।

वन्दे मायाऽधिपौ साक्षादक्षरपुरुषोत्तमौ॥ ३३४॥

मायास्वरूपम्

माया त्रिगुणयुक्ता स्याद् ब्रह्मपरात्मशासिता।

परिणामवती नित्या विस्मयकारिणी जडा॥ ३३५॥

सृष्ट्युपादानभूतेयं हेतुरनादिसंसृतेः।

साधनात् परशक्तिश्च ममत्वाऽहन्त्वकारणम्॥ ३३६॥

अनाद्यज्ञानरूपेयं विक्षेपमोहकारिणी।

प्रमादो लौकिके रागः प्राकृता धीर्हरौ गुरौ॥ ३३७॥

मायैव प्रकृतिः प्रोक्ता तमोऽन्धकारशब्दिता।

स्वभाव-वासनाद्याश्च तस्याः स्युर्विविधाऽभिधाः॥ ३३८॥

ब्रह्मपरात्मसंकल्पाल्लभते मुक्तसन्निधिम्।

ततो वैषम्यमायाति प्रधानाद्यात्मना भवे॥ ३३९॥

मनआदीनि चत्वारि शब्दादिपञ्चकं तथा।

धरादिपञ्चभूतानि पञ्च ज्ञानेन्द्रियाणि च॥ ३४०॥

कर्मेन्द्रियाणि पञ्चेति चतुर्विंशतिसंख्यया।

मायागणं विजानीयान्मूलप्रकृतिविस्तरात्॥ ३४१॥

सृष्टिप्रक्रिया

सृष्ट्युद्भवक्रमो ज्ञेयः सहजानन्दवाक्यतः।

नैकजीवेश्वराणां हि मोक्षाय सृष्टिसर्जनम्॥ ३४२॥

त्रिगुणम्

सत्त्वं रजस्तमश्चेति त्रयः स्युः प्रकृतेर्गुणाः।

अन्योऽन्याऽभिभवाश्चैव मिथः संमिश्रिताः सदा॥ ३४३॥

सत्त्वं सुखेन बध्नाति सुवर्णशृङ्खला यथा।

बध्नीयाद्धि रजो रागाद् मोहतश्च तमोगुणः॥ ३४४॥

सत्त्वोद्रेके शमाद्याः स्युः कामाद्या रजसस्तथा।

आलस्यादिस्तमोवृद्धौ गुणत्रयप्रभावतः॥ ३४५॥

शुद्धं सत्त्वं रजो नास्ति तमो नास्ति तथैव च।

संमिश्रिताः सदैवैते तस्मात् सर्वे प्रबन्धकाः॥ ३४६॥

गुणानेतानतीत्य त्रीन् साधर्म्यं ब्रह्मणा भवेत्।

गुणातीतं गुरुं प्राप्य भक्तिश्च परमात्मनि॥ ३४७॥

सर्वत्र प्राकृते सर्गे कार्योपादाननिर्णये।

सत्कार्यतां समाश्रित्य कार्यकारणताऽऽश्रिता॥ ३४८॥

लक्षणं महदादेस्तु जानीयाद् हरिवाक्यतः।

पृथक् पृथक्तया प्रोक्तं यथार्थं वचनामृते॥ ३४९॥

कालः

सर्वोऽप्यौपाधिकः कालः समयाऽर्थो दिनादिकः।

वस्तुक्रियाद्यपेक्षः स जनेच्छापरिकल्पितः॥ ३५०॥

नित्येत्याद्याः प्रयोगाश्च नैव कालार्थवाचकाः।

कालाऽतीतत्वमाहुस्ते नित्ये कालाऽप्रवेशनात्॥ ३५१॥

सृष्टिप्रवाहनित्यत्वात् कालेऽस्ति नित्यताकथा।

केवलमुपचारोऽयं नित्यः कालो यतो न हि॥ ३५२॥

नित्याऽनित्येतिभेदस्तु कालस्य नोपपद्यते।

समये समयाऽभावाद् अनवस्थादिदोषतः॥ ३५३॥

प्रलयकाल इत्यादि सृष्टिमपेक्ष्य प्राग्भवाम्।

अग्र इत्यादिशब्दोऽपि सांप्रतसृष्ट्यपेक्षितः॥ ३५४॥

शुभाशुभत्ववादोऽपि तादृग्वस्तुनिबन्धनः।

समयलक्षणस्तस्मात् कालः कश्चिन्न वस्तुतः॥ ३५५॥

क्षोभकनाशकाद्यर्थे शक्तिः स्यात् परमात्मनः।

चेतनस्यैव कर्तृत्वात् समयाऽर्थस्तदाऽपि न॥ ३५६॥

सत्ययुगस्तथा त्रेता द्वापरश्च कलिस्तथा।

युगचतुष्टयं प्रोक्तं शास्त्रेषु समयाऽर्थकम्॥ ३५७॥

चतुर्धा प्रलयः प्रोक्तो नित्यो नैमित्तिकस्तथा।

प्राकृतिकस्तृतीयः स्यात् तुर्य आत्यन्तिको लयः॥ ३५८॥

अक्षरपुरुषोत्तमकारणसिद्धान्तः

सर्वसृष्टिसमुत्पाद उपादाननिमित्तताम्।

भजतः शासकत्वादि ह्यक्षरपुरुषोत्तमौ॥ ३५९॥

सिद्धान्तं वैदिकं ह्येतम् अनुवर्तामहे वयम्।

तस्मादवैदिके वादे प्रामाण्यधीर्न जायते॥ ३६०॥

चार्वाकादिमतविमर्शः

निर्निमित्तिकता नैव सृष्टेः क्वाऽप्युपपद्यते।

स्वभावे नाऽपि प्रामाण्यं प्रत्यक्षैकजडाऽऽत्मनाम्॥ ३६१॥

प्रधानं केवलं नैव चेतनेनाऽनधिष्ठितम्।

सृष्ट्युपादानताऽर्हं स्यात् स्वतो जडाऽप्रवर्तनात्॥ ३६२॥

चेत्स्यान्मृदेव हेमैव घटो वा कुण्डलं स्वयम्।

तदा तु सर्वदैव स्युर्घटाश्च कुण्डलानि च॥ ३६३॥

धरादीनां चतुर्णां हि द्व्यणुकाऽऽरम्भकाश्च ये।

मिथोऽसंमिश्रिता नित्या न परमाणवो मताः॥ ३६४॥

यस्माच्च समवायो न न चाऽपञ्चीकृतो भवः।

तर्कस्य चाऽप्रतिष्ठानात् काणादं नाऽऽदृतं ततः॥ ३६५॥

शून्यं प्रमाणशून्यं स्यात् क्षणिकं क्षणिकं यतः।

विज्ञानमेकमित्यादि बहुज्ञानप्रसाधकम्॥ ३६६॥

यस्माच्च नेह संसर्गे ब्रह्माऽक्षरपरात्मनोः।

सृष्टिवादे न युज्यन्ते पक्षा माध्यमिकादयः॥ ३६७॥

अनेकान्तादिवादोऽपि नैव सिद्ध्येदसम्भवात्।

सप्तभङ्गीनयश्चैव स्वपक्षभञ्जको यतः॥ ३६८॥

अनादृत्य परात्मानम् आदृत्य कर्म मूर्तिमत्।

भवसम्भवमोक्षादावनर्हा आर्हताः सदा॥ ३६९॥

MENU