परब्रह्मधारा

 

मङ्गलम्

सहितः स्वामिना नित्यमास्ते नारायणो हरिः।

स्वामिनारायणस्तस्मात् कीर्त्यते समुपास्यते॥ २१३॥

प्रकरणसङ्गतिः

स्वामिपदाऽभिधेयं तु पूर्वमितो निरूपितम्।

नारायणाऽभिधेयं यत् तदिह विनिरूप्यते॥ २१४॥

ब्रह्मविद्या यतः कार्त्स्न्यं भजेच्छास्त्रप्रबोधिता।

उभौ समाहितौ यस्यामक्षरपुरुषोत्तमौ॥ २१५॥

परब्रह्मस्वरूपनिरूपणम्

परमात्मा परं ब्रह्म सर्वेश्वरेश्वरो हरिः।

नारायणश्च सर्वज्ञः कृपालुः पुरुषोत्तमः॥ २१६॥

मायाऽतीतश्च निर्दोषः साकृतिर्मानवाऽऽकृतिः।

नित्यः सर्वसमुत्कृष्ट एकोऽयं नैव तत्समः॥ २१७॥

दिव्यगुणविशिष्टोऽयं मायिकगुणवर्जितः।

अन्तर्यामी सर्वकर्ता गुणाऽतीतो नियामकः॥ २१८॥

मूर्तिमद्ब्रह्मणा नित्यं मुक्तैस्तद्‌भावभावितैः।

सेव्यते दासभावेन ह्यक्षरधामसंस्थितः॥ २१९॥

उपादानं निमित्तं च कारणं जगतो मतः।

सर्वाधारः स्वतन्त्रश्च कर्ता हर्ता नियामकः॥ २२०॥

स्वधामस्थित एवाऽयं सकलाऽन्विततां गतः।

व्यतिरिक्तोऽन्वितोऽपीह स्वामिनारायणो हरिः॥ २२१॥

मनुष्यादिजनेर्दाता सर्वकर्मफलप्रदः।

सर्वज्ञानक्रियेच्छानां शक्तेर्दाता दयाऽन्वितः॥ २२२॥

दिव्यसंकल्पमात्रेण नैकानामुद्दिधीर्षया।

सकलैश्वर्यसम्पन्नो धाम्नि सन्नेव जायते॥ २२३॥

दिव्याऽऽनन्दप्रदानाय मानुषीं तनुमाश्रितः।

दिव्यतामजहन्नेव लीलामातिष्ठते प्रभुः॥ २२४॥

स एव सहजानन्दः स्वामिनारायणो हरिः।

परमात्मा परं ब्रह्म भक्तिजो धर्मनन्दनः॥ २२५॥

स एव परमोपास्यो भजनीयश्च भावतः।

जप्यश्चाऽऽश्रयणीयश्च कीर्तनीयश्च सर्वदा॥ २२६॥

स एव प्रकटो नित्यं प्रत्यक्षे ब्रह्मणि गुरौ।

सहितः सकलैश्वर्यैः सम्यगानन्ददायकः॥ २२७॥

अनुप्रवेशनात् तस्य तत्तज्जीवेश्वरात्मसु।

अवताराः प्रजायन्ते तल्लब्धैश्वर्यभूषिताः॥ २२८॥

विभवा अवताराः स्युर्हरीच्छावशमागताः।

तत्तत्कार्यनिमित्तैस्तु ह्यसंख्यका भवन्ति च॥ २२९॥

व्यूहास्तथैव विज्ञेयाः परात्मलब्धभूतयः।

तत्सर्वचेतनाऽऽत्मानो मिथो भिन्नाः स्वरूपतः॥ २३०॥

परब्रह्मादिपदाऽभिधेयत्वे प्रवृत्तिनिमित्तम्

व्यपदिष्टं परब्रह्म यस्माद्धि ब्रह्मणः परम्।

अक्षरः पुरुषो गीतस्तस्माच्च पुरुषोत्तमः॥ २३१॥

ऐश्वर्यं धार्यते नित्यं व्यापनशासनादिकम्।

बलशक्त्यादिमत्त्वं च भगवानुच्यते ततः॥ २३२॥

जीवेश्वराऽऽत्मनामात्मा सर्वाऽऽत्मोत्कृष्टतां धरन्।

सर्वाऽऽत्मनामुपास्यश्च परमात्मेति कीर्तितः॥ २३३॥

ईश्वरेभ्यः परो यस्मात् परमेश्वर उच्यते।

मायानियमनाच्चैव मायीति परिबोधितः॥ २३४॥

एकत्वम्

स्वरूपं भिद्यते नैव कार्यभेदात् कदाऽपि तत्।

एकं सदेव नैकानां विधानां ग्रहणे प्रभु॥ २३५॥

क्वचिदनुप्रवेशेन क्वचित् तेन विनैव च।

ब्रह्मणि नित्यवासो हि न तत्राऽनुप्रवेशनम्॥ २३६॥

न मुक्तावप्यभेदः स्याद् ब्रह्मणा परब्रह्मणा।

ब्रह्मसाधर्म्यमाप्तानां तत्र भक्तिः सदा स्थिता॥ २३७॥

उपादानत्वेऽपि निर्विकारित्वम्

व्यापनाच्छासनाच्चैव परोपादानता मता।

विकृतिः प्रकृतौ जाता न सा ब्रह्मपरात्मनोः॥ २३८॥

परत्वम्

यत्र सर्वं गतं काष्ठां गुणैश्वर्यादि वास्तवम्।

न तत्परं तु कस्याऽपि किमपि तु कदापि तु॥ २३९॥

ब्रह्मतः श्रेष्ठता चाऽपि श्रुत्यैव बोधिता यदा।

का कथा ह्यन्यजीवानाम् ईश्वराणां तथैव च॥ २४०॥

असंख्येयाऽवताराणां ब्रह्मन्यूनत्वभाजिनाम्।

तस्मात् सर्वसमुत्कृष्टः स्वामिनारायणो हरिः॥ २४१॥

एकमेवाऽद्वितीयं तत् परमं ब्रह्म सर्वदा।

तत्समाऽभ्यधिकाऽभावात् सृष्टिनियमहेतुतः॥ २४२॥

नो चेन्नियन्तृबाहुल्याद् इच्छाऽभिप्रायभेदतः।

व्यवस्थाभङ्गदोषाद्धि सृष्ट्याद्यनुपपन्नता॥ २४३॥

मद्‌भावं मम साधर्म्यं परमं साम्यमुक्तितः।

ब्रह्मभावं विजानीयाद् अभावात्तत्परस्थितेः॥ २४४॥

परमसुखप्रदातृत्वम्

ज्ञानाऽऽनन्दस्वरूपोऽयं ज्ञानाऽऽनन्दौ बिभर्त्यपि।

सर्वज्ञानमयो नित्यं सर्वाऽऽनन्दप्रदायकः॥ २४५॥

कर्तृत्वम्

कल्याणं परमं भूयान्नैकजीवेश्वराऽऽत्मनाम्।

इदमेकं कृपालोस्तु सृष्टौ प्रयोजनं मतम्॥ २४६॥

जीवानामीश्वराणां च तत्तत्कर्माऽनुसारतः।

तत्कर्मफलभोगाय विश्वमिदं विरच्यते॥ २४७॥

नाऽतो वैषम्यनैर्घृण्ये दयैव परमात्मनः।

योग्यान् देहेन्द्रियादींश्च यच्छति मोचयत्यपि॥ २४८॥

इच्छाशक्तेः क्रियाशक्तेर्ज्ञानशक्तेः प्रदायकः।

अतो नित्यं पराऽधीना जीवेश्वराऽऽत्मकर्तृता॥ २४९॥

सर्वज्ञत्वम्

कर्तृत्वाज्ज्ञातृता सिद्धा ज्ञान्येव कुरुते यतः।

करणाद्यनपेक्षं तु ज्ञानं सकरणस्य तत्॥ २५०॥

युगपन्निखिलं वेत्ति विना यत्नं सदा स्वतः।

संकल्पे प्रथमं सृष्टं विश्वं तेनेति सर्वविद्॥ २५१॥

अन्वयित्वं व्यतिरेकित्वं च

अन्वितो नगनद्यादौ जीवेश्वराऽऽत्मसंस्थितः।

प्रतिमासु विशेषश्च विभवेष्वपि तिष्ठति॥ २५२॥

सर्वाऽऽधिक्येन सम्यक् तु ब्रह्मण्येवाऽन्वितो हरिः।

तारतम्यात्तु पात्राणामक्षरं सर्वतोऽधिकम्॥ २५३॥

धाम्नि मुक्तैरनन्तैर्यत् सेव्यमानं विराजते।

लोकेऽस्मिन्नवतीर्णं च व्यतिरेकि प्रकीर्तितम्॥ २५४॥

अन्वितो व्यतिरिक्तो वा स्वरूपं नैव भिद्यते।

नैव न्यूनाधिकत्वं च नांऽशांऽशित्वं कदाचन॥ २५५॥

भागेन केनचिद् वा न व्यतिरेकोऽन्वयोऽपि च।

तत्सामर्थ्यादिकं सर्वं सर्वथा सर्वदा समम्॥ २५६॥

परब्रह्मणः सगुणत्वं निर्गुणत्वं च

सगुणं निर्गुणं चेति परं ब्रह्म निरूपितम्।

सगुणं तु गुणौघत्वान्महत्त्वात् सर्वतस्तथा॥ २५७॥

निर्गुणमपि तज्ज्ञेयं शून्यत्वान्मायिकैर्गुणैः।

सूक्ष्माऽतिसूक्ष्मतायाश्च यज्ज्ञानान्मुच्यतेऽशुभात्॥ २५८॥

साकृतिकत्वम्

ईक्षणं श्रूयते तस्य प्रश्ने मुक्तगणस्य च।

साकारः सहजानन्दो दिव्यसुन्दरविग्रहः॥ २५९॥

साकृतिरेव कर्ताऽयं साकृतिर्व्यापको मतः।

साकृतिरेव शास्ता स नित्यं साकृतिको हरिः॥ २६०॥

यश्च करणरूपादेर्निषेधः श्रूयते श्रुतौ।

मायिकस्यैव स ज्ञेयो दिव्यस्य तत्र रूपणात्॥ २६१॥

तत्राऽपि मानवाकारः किशोरो द्विभुजः सदा।

चतुरष्टभुजत्वादि क्वाचित्कं स्वेच्छया कृतम्॥ २६२॥

तस्माद्धरे: स्वरूपं तु साकारमेव सर्वदा।

इति भावनया नित्यं तदुपास्तिर्हि मोक्षदा॥ २६३॥

निराकारादिभावाऽऽढ्या द्रोहनिग्रहबन्धकृत्।

साकारत्वे हरेः प्रीतिः शर्कराखण्डवद् बहुः॥ २६४॥

सर्वोपरित्वम्

स्वतः सर्वसमुत्कृष्टः सर्वत्र सर्वथा सदा।

गुणैश्वर्यादिभिः क्वाऽपि कोऽपि न तत्समो भवेत्॥ २६५॥

सोऽयं श्रीसहजानन्दः सर्वोपरि परात्परः।

स्वामिनारायणः साक्षाद् यस्मान्न विद्यते परः॥ २६६॥

प्रत्यक्षत्वम्

प्रत्यक्षोऽस्तीति सिद्धान्तं स्वामिनारायणो भुवि।

पूर्वमनुपदिष्टं च विशिष्टमाह शाश्वतम्॥ २६७॥

अद्यैव वर्तमानं यद् नरतनौ विराजितम्।

प्रत्यक्षमिति तज्ज्ञेयं पश्यद्धि विचरत् तथा॥ २६८॥

साक्षाद् भोजनवार्तादि चेष्टाचरित्रचिन्तनम्।

प्रत्यक्षं लभ्यते यस्मात् सहवासादिना पुनः॥ २६९॥

सेवितः सहजानन्दो भक्तैस्तत्कालिकैर्मुदा।

प्रत्यक्षं संप्रति ज्ञेयं गुरुरूपेण संस्थितम्॥ २७०॥

सम्यग् वासो यतस्तत्र ह्युद्‌भुतसर्वशक्तिकः।

नारायणस्वरूपं तत् प्रत्यक्षमिति सेव्यते॥ २७१॥

दिव्यत्वम्

दिव्यो दिव्याऽतिदिव्योऽयं स्वसंगाद् दिव्यताप्रदः।

दिव्ये धाम्नि सदा दिव्यो दिव्य इह समागतः॥ २७२॥

मानुषे दिव्यतां पश्यन् चिन्तयन् वर्णयन् लिखन्।

दिव्यानन्दं प्रभुञ्जीत कृपातो दिव्यतानिधेः॥ २७३॥

संप्राप्याऽक्षररूपत्वं भजेत पुरुषोत्तमम्।

इत्यादिसहजानन्दवाक्यान्मानाऽन्तरैस्तथा॥ २७४॥

ग्रथितो येन शब्दोऽयमक्षरपुरुषोत्तमः।

गुरूणां गुरवे तस्मै शास्त्रिणेऽस्तु नमो नमः॥ २७५॥

विज्ञाप्य ब्रह्मपरब्रह्मसुरूपयुग्मं

प्रस्थाप्य धातुप्रतिमा भुवि मन्दिरेषु।

येनाऽञ्जलिर्विरचितो विरलोऽस्तु तस्य

द्वारे हि यज्ञपुरुषस्य शुभाञ्जलिर्मे॥ २७६॥

MENU