प्रमाणधारा

 

मङ्गलम्

यत्संकल्पाऽनुगं वस्तुभूतिस्थित्यादि सर्वदा।

यत्संकल्पाऽनुगो वस्तुस्वरूपधर्मनिश्चयः॥ २७७॥

यश्च प्रामाण्यनिर्णेता सर्वप्रामाण्यकारणम्।

सर्वप्रामाण्यधीहेतुः सर्वप्रमाप्रदः प्रमी॥ २७८॥

स्वामिनारायणं वन्दे ह्यक्षरपुरुषोत्तमम्।

प्रमाणपुरुषं वन्दे प्रमुखं तं गुरुं हरिम्॥ २७९॥

प्रमाणलक्षणादि

नित्योद्‌भासितबोधत्वान्मानाऽनधीनसिद्धितः।

मानवश्यं न वै मेयम् अक्षरपरमात्मनोः॥ २८०॥

तत्कृपालब्धप्रज्ञानां ब्रह्मभूताऽऽत्मनां तथा।

सर्वार्थानां समुद्‌भासान्नैवाऽस्ति मानवश्यता॥ २८१॥

अतो मानात् प्रमेयस्य सिद्धिरिति तु केवलम्।

बद्धात्मनियतं ज्ञेयं यद्धि वादेषु योज्यते॥ २८२॥

ज्ञानं प्रमात्मकं ज्ञेयं यथाऽवस्थितवस्तुनः।

यथा शुक्तावियं शुक्ती रजते रजतं तथा॥ २८३॥

अकार्त्स्न्यं वैपरीत्यं च तथैव संशयादिकम्।

अपाकृत्य विबोधे स्यात् प्रमाणमुपकारकम्॥ २८४॥

अक्षरब्रह्मविज्ञानं सत्यज्ञानादिभिर्गुणैः।

श्रुतिप्रोक्तदिशा यद्धि विजानीयात् प्रमात्मकम्॥ २८५॥

पराऽक्षरपरत्वादिगुणैश्च परब्रह्मणः।

अच्छेद्यादिगुणैश्चैवं ज्ञानं जीवात्मनः प्रमा॥ २८६॥

विशेषैश्वर्यवत्त्वादि - गुणैरीश्वरबोधनम्।

ब्रह्मनियम्यतादिभिर् - गुणैर्मायाविबोधनम्॥ २८७॥

आत्मा ज्ञानाऽविनाभावी ज्ञानमात्रविहीनताम्।

न भजते यतश्चाऽयम् अनादिसंसृतिं गतः॥ २८८॥

अतिव्याप्तिस्तथाऽव्याप्तिः शून्यत्वं सम्भवस्य च।

लक्षणस्य त्रयो दोषा लक्षणज्ञैः प्रकीर्तिताः॥ २८९॥

प्रत्यक्षम्

प्रत्यक्षं द्विविधं ज्ञेयं लौकिकं च ह्यलौकिकम्।

आद्यमिन्द्रियसापेक्षं बद्धजीवेश्वरात्मनाम्॥ २९०॥

इन्द्रियनिरपेक्षं स्याद् मुक्तानां योगिनां तथा।

द्वितीयं तत् कृपालब्धम् अक्षरपरमात्मनोः॥ २९१॥

सापेक्षं द्विविधं ज्ञेयं बाह्यमाभ्यन्तरं तथा।

समनश्चक्षुरादीनां बाह्यं विषयसंगतः॥ २९२॥

बाह्येन्द्रियाऽनपेक्षं यद् अन्तः स्मृत्यादि मानसम्।

षड्विधकरणाऽपेक्षं तदपि षड्विधं भवेत्॥ २९३॥

संस्कारमात्रजन्यं यज्ज्ञानं स्मरणमुच्यते।

विषयो नाऽगृहीतोऽत्र गृहीतग्राहिका स्मृतिः॥ २९४॥

पुरेह गुरुणा प्रोक्तमेवमेवं पुनः पुनः।

इहैवं भोजिता भूरि रङ्गैः प्रसादिता मुहुः॥ २९५॥

उपविष्ट इहैवं स प्रभाते चलितस्तथा।

सायंकाले निशायां च सारङ्गपुरमन्दिरे॥ २९६॥

उपादिशत् सुसिद्धान्तं भक्तचिन्तामणिं तदा।

नारायणस्वरूपोऽयमित्यादि स्मरणं भवेत्॥ २९७॥

आत्माऽन्तःकरणाऽऽढ्यं स्यात् प्रमाणं चक्षुरादिकम्।

विषयग्राहकाणि स्युरिन्द्रियाणि स्ववृत्तिभिः॥ २९८॥

अनुमानम्

अनु हेतुमितिं नित्यं साध्यस्य जायते मितिः।

तस्मादनुमितिः प्रोक्ता प्रमाणस्थाऽनुमानजा॥ २९९॥

व्याप्त्या नित्यं विशिष्टा स्यात् पक्षधर्मत्वधीश्च या।

करणमनुमायां तु परामर्शः प्रकीर्तितः॥ ३००॥

व्याप्तिर्नियतसंसर्गो धूमवह्न्योर्यथा मता।

समा च विषमा चैव त्रिविधा जायते पुनः॥ ३०१॥

आद्या त्वन्वयमात्रा स्याद् द्वितीया व्यतिरेकतः।

तृतीयोभयरूपा च यथौचित्यं नियोजयेत्॥ ३०२॥

प्रमाणं नैव तर्कः स्यात् तत्राऽनुग्राहकस्तु सः।

व्यभिचारादिशङ्कानां वारणं तदनुग्रहः॥ ३०३॥

अनुमानं द्विधं प्रोक्तं स्वार्थपरार्थभेदयोः।

स्वार्थं स्वाऽनुमितेर्हेतुः पराऽनुमितिकृत्परम्॥ ३०४॥

हेतुवद्धि यदाभासो हेतवो दूषिता मताः।

हेत्वाभासास्ततो ज्ञेया व्याप्त्यनुमितिरोधकाः॥ ३०५॥

अनेकान्तविरुद्धौ द्वावसिद्धबाधितौ तथा।

सत्प्रतिपक्षितः पञ्च हेत्वाभासाः प्रधानतः॥ ३०६॥

उपमानम्

हेतुरुपमितेर्यः स्याद् उपमानं तदुच्यते।

शास्त्रोपयोगबाहुल्यात् प्रामाण्यं न जहाति तत्॥ ३०७॥

शब्दः

शब्दो यो हि यथार्थः स्यात् प्रामाण्यं भजते सदा।

अन्यथा नैव प्रामाण्यं दुष्टशब्दादनर्थधीः॥ ३०८॥

हरेर्गुरोश्च यः शब्दः प्रमाणं निखिलो मतः।

तदुपदिष्टं सच्छास्त्रं प्रमाणं तत्कृताऽर्थकम्॥ ३०९॥

संहिताब्राह्मणात्मा यस्तथोपनिषदात्मकः।

आरण्यकस्वरूपश्च वेदः प्रामाण्यभाग् भवेत्॥ ३१०॥

शिक्षादीनां तदङ्गानां वेदरक्षा प्रयोजनम्।

वेदपीडा भवेन्नूनं वैपरीत्यात् पदार्थयोः॥ ३११॥

इतिहासपुराणाभ्यां तस्मात् तदुपबृंहणम्।

सदाचारेण शिष्टानां वेदार्थोज्जीवनं भुवि॥ ३१२॥

सहजानन्ददेवस्य ब्रह्माऽक्षरगुरोस्तथा।

अधिकारो न चाऽन्यस्य वेदतात्पर्यनिश्चये॥ ३१३॥

साक्षाद्वेदो भवेद् वाक्यं स्वामिनारायणप्रभोः।

गुरुश्च पञ्चमो वेदस्तच्छब्दश्रेष्ठता ततः॥ ३१४॥

वचनामृतशास्त्रं हि वार्ताश्च स्वामिनः शुभाः।

गुरुचरित्रग्रन्थाश्च प्रस्थानत्रयमुच्यते॥ ३१५॥

सिद्धान्ताऽनुगमन्यत्तु सर्वथा साम्प्रदायिकम्।

गुरुप्रमाणितं ह्येव प्रामाण्यपदवीं भजेत्॥ ३१६॥

वेदे वेदान्तमन्त्रे सकलपरतया, निश्चितं यत्परोक्षं,

प्रत्यक्षं तच्च ब्रूते, सहजलभतया स्वामिनारायणं यद्।

साक्षात् प्रोक्तं च तत्त्वं श्रुतिगहनगुहागर्भितं ब्रह्मसंज्ञं,

तस्मात्प्रामाण्यपक्षे भजति परमतां सर्वशास्त्रेषु नित्यम्॥ ३१७॥

शक्तिश्च लक्षणा चेति वृत्तिर्द्वेधा हि शब्दगा।

शक्तिर्योगश्च रूढिश्च योगरूढिरिति त्रिधा॥ ३१८॥

आप्तोक्तेर्व्यवहाराच्च कोशव्याकरणादितः।

शक्तिग्रहो भवेन्नॄणां विवरणादिभिस्तथा॥ ३१९॥

लक्षणा शक्यसम्बन्धः शुद्धा गौणी द्विधा मता।

शक्यतात्पर्यबाधे तु सम्बद्धाऽर्थे प्रवर्तनम्॥ ३२०॥

गवादिपदशक्तिस्तु धर्मविशिष्टधर्मिणि।

धर्मः सास्नादिमत्त्वं स्याद् धर्मित्वं गोस्तदोच्यते॥ ३२१॥

लौकिके वैदिके शब्दे भेदो विज्ञायते बुधैः।

वैदिके नियतोऽर्थः स्याल्लौकिके न तथा सदा॥ ३२२॥

प्रत्यक्षादिप्रमाणेषु शब्दस्तु प्रमुखो भवेत्।

यस्मादलौकिकाऽर्थेषु शब्दाऽन्यप्रसरो न हि॥ ३२३॥

केवलमनुमानं तु परात्मसाधकं न हि।

व्यभिचारादिदोषत्वं कार्यत्वादेर्न वार्यते॥ ३२४॥

अतः शास्त्राऽऽश्रयो श्रेयान् अनुमानादलौकिके।

जगत्कर्तृत्वबोधाय ह्यक्षरे पुरुषोत्तमे॥ ३२५॥

शास्त्रशब्दोऽपि नो सेव्यो गुरोराश्रयणं विना।

गुरुमुखाच्छ्रुतं शास्त्रं सदर्थांस्तु प्रकाशयेत्॥ ३२६॥

गुरुहरिबलं श्रेष्ठं शास्त्रवचोबलादपि।

शास्त्रात्तु केवलात् क्वापि न ज्ञानं निश्चयः सुखम्॥ ३२७॥

अतः शास्त्रं बलीयो न साक्षाद् ब्रह्माऽक्षराद् गुरोः।

नाऽसत्याद् वारयेच्छास्त्रं गुरुस्तु वारयेत् ततः॥ ३२८॥

प्रत्यनीकं भवेद् यद्धि प्रमायां करणं न हि।

प्रमित्यनुगुणत्वे तु न तत्संख्यादुराग्रहः॥ ३२९॥

अतोऽर्थापत्तिरित्यादेश्चेत् सिद्धान्ताऽविरोधिता।

तदा बोधोपयुक्तत्वात् पृथगुक्ता प्रमाणता॥ ३३०॥

ख्यातिविमर्शः

भ्रान्तौ ख्यातिस्तु विज्ञेया चिदचित्ख्यातिसंज्ञका।

प्रवृत्तिर्द्विविधा भ्रान्तेस्तस्मादेकान्तिको न हि॥ ३३१॥

पञ्चीकारो भवेद् यत्र सत्कार्यतोपपद्यते।

अचित्ख्यातिर्मता तत्र शुक्त्यादौ रजतादिके॥ ३३२॥

ततो भन्ने तु चित्ख्यातिर्वैपरीत्यं यदा भवेत्।

यथाऽऽत्मसु जडत्वादि चेतनत्वं जडेषु च॥ ३३३॥

MENU