साधनधारा

मङ्गलम्

साक्षाद्ब्रह्मस्वरूपे प्रकटगुरुवरे प्रीतिकाष्ठां विधाय,

सङ्गेन स्वात्ममध्ये स्वयमपि च तथा ब्रह्मभावं प्रधाय।

कार्या तत्रैव भक्त्या प्रकटहरिसुधीर्दिव्यभावं निधाय,

सेव्यो ब्रह्मस्थदेवो भवभयतरणे स्वामिनारायणोऽयम्॥ ४२५॥

आज्ञोपासनसद्भावपक्षा हि जीवजीवनम्।

देहि निश्चलनिष्ठार्थमक्षरपुरुषोत्तमे॥ ४२६॥

कृपासाध्योऽक्षरपुरुषोत्तमः

दयार्णवः कृपासाध्यः प्रसादात् सुलभा कृपा।

ब्रह्मभावात् प्रसीदेच्च ह्यक्षरपुरुषोत्तमः॥ ४२७॥

ब्रह्मभाववैभवः

तस्माद्धि ब्रह्मभावोऽयं सम्यगिह निरूप्यते।

सर्वसाधनराशिस्तु यस्मिन्नन्तर्गतः सदा॥ ४२८॥

यद्वैभवात् परा शान्तिः कर्माऽलेपोऽप्यवाप्यते।

सुकरः कर्मयोगश्च देहभावनिवारणा॥ ४२९॥

स्वजने ममताऽभावः स्त्रीविषयादिनाशनम्।

परभक्त्यधिकारित्वं जीवन्मुक्त्यनुभावनम्॥ ४३०॥

दिव्यभावोऽक्षरप्राप्तिरित्यादि सहजं भवेत्।

इहोच्यते ब्रह्मभावो ब्रह्मसङ्गप्रभावितः॥ ४३१॥

ब्रह्मभावव्याख्या

ब्रह्मगुणसमावाप्तिर्भक्तये परब्रह्मणः।

ब्रह्मप्रसंगजा दिव्या कीर्तिता ब्रह्मरूपता॥ ४३२॥

गुरोर्ज्ञानमिव ज्ञानं वर्तनमपि तत्समम्।

देहार्पणं तथा भक्तौ ब्रह्मात्मैक्यं तदुच्यते॥ ४३३॥

जीवेश्वराणां ब्रह्मतः तत्त्वतो भेदः

वेद्धव्यं भिद्यते वेद्धुः साहित्यं भेदयोजकम्।

तितीर्षोः सेतुभेदाच्च श्रुत्युक्तं ब्रह्म भिद्यते॥ ४३४॥

मतिजातिगुणस्थानकालस्थित्यादिसाम्यतः।

सौहार्द्याद्वाऽविनाभावाद् भिन्नेऽप्येकत्वभाषणम्॥ ४३५॥

एवं जीवेश्वरा नित्यं भिन्नाः स्वरूपतोऽपि ते।

ब्रह्मगुणादिसाम्येन तदैक्यपदभाजिनः॥ ४३६॥

सामानाधिकरण्यन्तु समेष्वपि भवेद् गुणैः।

पित्रादौ देवभावादौ भिन्नेऽपि भावयोजना॥ ४३७॥

साम्यादावेवकारस्य प्रसिद्धेर्लोकवेदयोः।

ब्रह्मैव भवतीत्यादौ तथैवार्थो न चाऽन्यथा॥ ४३८॥

इत्थं सर्वैक्यशब्देषु कुर्यादर्थविधिं तथा।

यथाऽक्षरात्मनोर्नैव स्वरूपैक्यप्रसञ्जनम्॥ ४३९॥

अन्यथा पञ्चभेदानां प्रोक्तानां हरिणा स्वयम्।

सर्वशास्त्रप्रसिद्धानां खण्डनात्स्यादनर्थधीः॥ ४४०॥

गीतायां ब्रह्मभाववर्णनम्

विषीदन् कृपयाऽऽविष्टो ह्यश्रुपूर्णाकुलेक्षणः।

ब्रह्मभूतः प्रसन्नाऽऽत्मा यथा भवेत् तथा जगौ॥ ४४१॥

स्थितप्रज्ञो द्वितीयस्थस्तृतीये ह्यात्मतृप्तता।

तत्त्वदर्शी प्लवो ज्ञानी तुर्ये ब्रह्माग्निसंनिभः॥ ४४२॥

पञ्चमे ज्ञानवाच्यः स्याद् मुनिर्मुक्तश्च पण्डितः।

स्थिरप्रदीपवच्चेता योगी षष्ठोपवर्णितः॥ ४४३॥

सप्तमे स्वात्मतुल्योऽयं ज्ञानिशब्देन कीर्तितः।

स्मृतः प्रणवरूपेण व्याहरणेऽष्टमे पुनः॥ ४४४॥

परोपयमनोपायो दशमे बुद्धियोगतः।

ज्ञानदीपोपमो नित्यं रमते परमात्मनि॥ ४४५॥

द्वादशोक्तः प्रियो भक्तो गुणातीतश्चतुर्दशे।

सर्वाध्यायोपसंहारे ब्रह्मभूतोऽन्तिमे पुनः॥ ४४६॥

एवं सर्वासु गीतासु ब्रह्मस्थितिनिरूपणात्।

ब्रह्मणो मानवं रूपं ब्रह्मभावाय सिद्ध्यति॥ ४४७॥

ब्रह्मसर्वगुणाऽवाप्तिस्तद्भावे नैव वाञ्छिता।

कल्याणे तूपयुक्ता ये तद्‌गुणमात्रसंग्रहात्॥ ४४८॥

कार्याऽऽख्यानादपूर्वत्वं ब्रह्मभावस्य सिध्यति।

अन्यथा स्याद् विधिर्व्यर्थस्तद्भावप्रतिपादकः॥ ४४९॥

परब्रह्मणि भक्तिं तु ब्रह्मभावोऽप्यपेक्षते।

किमपि साधनं भक्तिं विना नैव प्रसिध्यति॥ ४५०॥

एकान्तिकधर्मः

धर्मो ज्ञानं च वैराग्यं भक्तिश्चैतैस्त्रिभिर्युता।

ज्ञेय एकान्तिको धर्मः प्रभुप्रसादसाधनम्॥ ४५१॥

अयं भागवतो धर्मः सम्बन्धादुच्यते हरेः।

यस्य संस्थापनार्थाय सम्भवस्तु हरेरिह॥ ४५२॥

अस्माद्धि सुतरां न्यूना धर्मा वर्णाऽऽश्रमोचिताः।

केवला भक्तिहीनाश्च भगवद्योगवर्जिताः॥ ४५३॥

भक्तेरेवेह प्राधान्यं धर्मादिकचतुष्टये।

भक्तेरङ्गतयैवैषां साधनत्वप्रबोधनात्॥ ४५४॥

धर्मः

आज्ञा हरेर्गुरोश्चैव सदाचारादिरूपिणी।

शास्त्राऽऽदेशाऽऽत्मको धर्मो विधिनिषेधलक्षणः॥ ४५५॥

ब्रह्मचर्यगृहस्थौ च वानप्रस्थस्तथा यतिः।

चत्वार आश्रमा ह्येते व्यवस्थातः प्रकीर्तिताः॥ ४५६॥

विप्रः क्षत्रश्च वैश्यश्च शूद्रश्चेति चतुष्टयम्।

वर्णविभजनं प्रोक्तं सर्वाभ्युदयहेतुकम्॥ ४५७॥

श्रेष्ठो न ब्राह्मणो ज्ञेयो जात्यैव चेद् गुणैर्विना।

नैव शूद्रः कनिष्ठश्च जात्या मिथ्यामतिर्हि सा॥ ४५८॥

सदाचारादिनिष्ठो यः क्वापि वर्णस्थितो भवेत्।

स एव साधुर्मन्तव्यः श्रेष्ठश्च धार्मिको बुधैः॥ ४५९॥

सगरामादयः श्रेष्ठाः साधवो धार्मिका मताः।

ब्राह्मणवच्च पूज्यास्ते जात्या शूद्रा हि यद्यपि॥ ४६०॥

ज्ञानम्

ब्रह्मरूपात्मरूपाद्या आत्मनिष्ठादयस्तथा।

उपदेशे प्रयुक्ता ये पर्यायाः पारिभाषिकाः॥ ४६१॥

आवृतोऽन्याऽनपेक्षो यः स्वावरणनिवारणे।

शक्तश्चेत्तत्कथं बन्धो ह्यशक्तोऽन्यमपेक्षते॥ ४६२॥

स चाऽन्यः परमात्मा वा साक्षाद्ब्रह्मात्मको गुरुः।

अतो नाऽऽत्मसमुद्धारो विना तौ शक्यसम्भवः॥ ४६३॥

सच्छब्देनाऽक्षरं ग्राह्यं तत्त्वं स्याद् ब्रह्मभावना।

ब्रह्मरूपः स्थितस्तस्मिन् एतादृगात्मवानिह॥ ४६४॥

ब्रह्मविभावनाऽऽधिक्यात् परब्रह्मसुयोगतः।

विशिष्टा ह्यात्मनिष्ठेयं हरिणा प्रतिपादिता॥ ४६५॥

अहमात्माऽस्म्यहं ब्रह्म ब्रह्मरूपे मयि प्रभुः।

इति साक्षाद् ब्रह्मयोगाद् यो भावः साऽऽत्मरूपता॥ ४६६॥

या परमात्मयोगेन शून्या च ब्रह्मभावतः।

निर्बीजा विफला प्रोक्ता सबीजोभययोगयुक्॥ ४६७॥

एवं हि निश्चिते यत्र केवलाऽऽत्मनिरूपणम्।

तत्रापि ह्युभयं ग्राह्यं तद्विना तदभावतः॥ ४६८॥

आधिक्यमपि नाऽस्माकं परबोधार्थमुच्यते।

सिद्धान्ते तूभयं भाति नाऽतोऽधिकपदैषणा॥ ४६९॥

एवं विशिष्यतेऽपूर्वा सहजानन्दबोधिता।

या ब्रह्मरूपिणी प्रोक्ता ह्यात्मनिष्ठा वचोऽमृते॥ ४७०॥

वैराग्यम्

ब्रह्मपरात्मभिन्नेषु रागाभावो विरागता।

ज्ञानांऽशसहिता नित्यं भक्त्युपकारिणी भवेत्॥ ४७१॥

भक्तेर्यद्वर्धकं तद्धि भक्तो वैराग्यमाप्नुयात्।

दुष्टं तदन्यथा मोघं श्रेयोऽवरोधकं त्यजेत्॥ ४७२॥

भक्तिः

भक्तिस्तु सहजानन्दे माहात्म्यज्ञानभूषिता।

दिव्याऽनन्या परा प्रीतिर्लौकिकभाववर्जिता॥ ४७३॥

भक्तिर्नानाविधा प्रोक्ता श्रवणकीर्तनादिका।

भक्ताऽभिरुचिभेदाद्धि तत्र वैविध्यदर्शनम्॥ ४७४॥

आश्रयोपासनाध्यान-सेवादिकं च यद् भवेत्।

भक्तिविशेषरूपं तत् पराऽऽत्मप्रीतिसंभृतम्॥ ४७५॥

सर्वकर्ता समुत्कृष्टः साकृतिः प्रकटः सदा।

इत्यादिगुरुलब्धा धीर्ज्ञेया हरेरुपासना॥ ४७६॥

प्रत्यक्षभक्तिरेवोक्ता श्रेष्ठा कृत्स्नफलप्रदा।

नारायणस्वरूपेऽतो गुरुहरौ विधीयते॥ ४७७॥

गुरुहरिप्रसन्नतौपयिकसाधनाऽन्तरसंग्रहः

हेयः केवलतर्कस्तु दिव्यतत्त्वसुनिर्णये।

अप्रसरादशक्तत्वाद् अनेकाऽन्ताऽर्थबोधकात्॥ ४७८॥

दुस्तर्कः सुतरां हेयः कुबुद्धेर्जायते यतः।

हठादज्ञानतो वाऽपि दुराशयाच्च सत्यहा॥ ४७९॥

स्वयं प्रतिष्ठया हीनात् सिद्धान्तस्थापनं कुतः।

सत्यं न मृग्यते तर्कैर्मार्गितं हि दृढायते॥ ४८०॥

श्रद्धादार्ढ्याय सत्तर्कः शास्त्रगुर्वनुगः पुनः।

श्रद्धामूलः पुरस्कार्यो गुर्वादेशान्न चाऽन्यथा॥ ४८१॥

इन्द्रियसंयमो मायाविकारादिविदारणम्।

एकान्तधर्मपुष्टिश्च स्वात्मनि ब्रह्मरूपता॥ ४८२॥

माहात्म्यसहितः सम्यङ्निश्चयः परमात्मनः।

मोक्षः सर्वार्थसिद्धिर्हि प्रत्यक्षब्रह्मसङ्गतः॥ ४८३॥

परमैकान्तिको भक्तः साधुः सत्पुरुषश्च सन्।

एकान्तिको गुरुः साक्षाद् महापुरुष आदिभिः॥ ४८४॥

एकमेवाक्षरं ब्रह्म मोक्षोपायतया ध्रुवम्।

वचनामृतवाक्येषु नानाशब्दैः प्रदर्शितम्॥ ४८५॥

उत्साहोऽभ्यसनं धैर्यं विश्वासः संयमो बलम्।

सुहृद्भावस्तथैक्यं च दासत्वं गुरुसेवनम्॥ ४८६॥

प्रार्थना च मुमुक्षा च सहश्च गुणग्राहिता।

प्राप्त्यादिकाऽनुसन्धानम् अन्तर्दृष्टिस्तथाऽऽह्निकम्॥ ४८७॥

एतानि साधनानि स्युर्गुरुप्रसन्नता यतः।

साक्षाद् ब्रह्मप्रसङ्गस्तु तेष्वपि प्रमुखं भवेत्॥ ४८८॥

MENU