उपसंहारः

सुधाशास्त्रमिदं ह्येवं नवधारासु निर्मितम्।

श्वसिति निष्ठया साक्षाद् अक्षरपुरुषोत्तमे॥ ५२५॥

स्वामिवार्ताऽमृतं दिव्यं दिव्यं च वचनाऽमृतम्।

गुरूणां चरितं दिव्यं गुरुलेखाऽमृतं शुभम्॥ ५२६॥

गुरुलाभाऽमृतं साक्षाद् हरये गुरवे तथा।

पञ्चाऽमृताऽभिषिक्तोऽहं सुधाऽञ्जलिं समर्पये॥ ५२७॥

शब्देषु साधितं यद्धि सप्रपञ्चं निरूपितम्।

नैके तदद्य जीवन्ति गुरुसत्संगवैभवात्॥ ५२८॥

सन्तुष्टा दृढनिष्ठातो ह्यक्षरपुरुषोत्तमे।

सत्सङ्गे बहवो दृष्टाः शास्त्रक्लेशविवर्जिताः॥ ५२९॥

सत्सङ्गान्नाधिकं किञ्चिद् गुरुप्रसङ्गलक्षणात्।

एतादृग्ग्रन्थकोटिभ्यः सत्सङ्ग उत्तमस्ततः॥ ५३०॥

श्वासे श्वासे च सत्सङ्गं दिव्यमलौकिकं शुभम्।

पूरयेति गुरो याचे ग्रन्थाऽन्ते भद्रभावतः॥ ५३१॥

यत्पादरेणौ हरिकृष्णकाङ्क्षा, यद्दुःखदाने हरिकृष्णभीतिः।

यद्दर्शने च हरिकृष्णवाञ्छा, तदक्षरं श्रीप्रमुखं नमामि॥ ५३२॥

सद्धर्मसुज्ञानविरागयुक्तभक्तौ परायां सततं यदात्मा।

एकान्तिको वाडववह्निसंज्ञः सेवा यदीया हरिकृष्णतुल्या॥ ५३३॥

 

मोक्षस्य द्वारं समपावृतं स्यात्,

प्रकृष्टसङ्गेन च ह्यात्मबुद्ध्या।

साक्षात्कराग्रे परमात्मबोधः,

प्रीतौ कृतायां प्रमुखे दृढायाम्॥ ५३४॥

 

नयनकमलमध्ये दर्शको भक्तिपुत्रः,

चरणकमलमध्ये व्राजको भक्तिपुत्रः।

वदनकमलमध्ये भाषको भक्तिपुत्रः,

प्रमुखसकलकार्ये कारको भक्तिपुत्रः॥ ५३५॥

 

प्रणौमि सहजानन्दं परमं ब्रह्म शाश्वतम्।

प्रणमामि गुणातीतम् अक्षरब्रह्मसंज्ञितम्॥ ५३६॥

ब्रह्मपरम्परां वन्दे सम्प्रदायाभिरक्षिणीम्।

प्राग्जीभक्तं सदा शान्तं सिद्धान्तपुरुषं तथा॥ ५३७॥

यज्ञपुरुषदासं च ह्यानन्दब्रह्मयोगिनम्।

शास्त्रान्ते मङ्गलात्मानं वन्देऽहं प्रमुखं गुरुम्॥ ५३८॥

महन्तस्वामिनं नौमि दयामूर्तिं कृपाऽन्वितम्।

यत्सांनिध्येन मे चित्तं शान्तायते सुखायते॥ ५३९॥

 

एवं परब्रह्मस्वामिनारायणप्रबोधित-

ब्रह्मस्वरूपगुणातीतगुरुपरम्परोपबृंहित-

ब्रह्मविद्यालक्षणाऽक्षरपुरुषोत्तमदर्शनसंग्राहिकाः

स्वामिनारायणसिद्धान्तकारिकाः समाप्ताः॥

MENU