શ્રીમદ્‌ભાગવતપુરાણ

श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

एकादशः स्कन्धः

 

अथ प्रथमोऽध्यायः

श्रीशुक उवाच

कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः

भुवोऽवतारयद्भारं जविष्ठं जनयन्कलिम् १

ये कोपिताः सुबहु पाण्डुसुताः सपत्नैर्

दुर्द्यूतहेलनकचग्रहणादिभिस्तान्

कृत्वा निमित्तमितरेतरतः समेतान्

हत्वा नृपान्निरहरत्क्षितिभारमीशः २

भूभारराजपृतना यदुभिर्निरस्य

गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः

मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं

यद्यादवं कुलमहो अविषह्यमास्ते ३

नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन्

मत्संश्रयस्य विभवोन्नहनस्य नित्यम्

अन्तः कलिं यदुकुलस्य विधाय वेणु

स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ४

एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः

शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ५

स्वमूर्त्या लोकलावण्य निर्मुक्त्या लोचनं नृणाम्

गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ६

आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ

तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ७

श्रीराजोवाच

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम्

विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ८

यन्निमित्तः स वै शापो यादृशो द्विजसत्तम

कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ९

श्रीबादरायणिरुवाच

बिभ्रद्वपुः सकलसुन्दरसन्निवेशं

कर्माचरन्भुवि सुमङ्गलमाप्तकामः १०

आस्थाय धाम रममाण उदारकीऋतिः

संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ११

कर्मानि पुण्यनिवहानि सुमङ्गलानि

गायज्जगत्कलिमलापहराणि कृत्वा

कालात्मना निवसता यदुदेवगेहे

पिण्डारकं समगमन्मुनयो निसृष्टाः ११

विश्वामित्रोऽसितः कण्वो

दुर्वासा भृगुरङ्गिराः

कश्यपो वामदेवोऽत्रिर्

वसिष्ठो नारदादयः १२

क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः

उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् १३

ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम्

एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा १४

प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः

प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति १५

एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप

जनयिष्यति वो मन्दा मुषलं कुलनाशनम् १६

तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम्

साम्बस्य ददृशुस्तस्मिन्मुषलं खल्वयस्मयम् १७

किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः

इति विह्वलिता गेहानादाय मुषलं ययुः १८

तच्चोपनीय सदसि परिम्लानमुखश्रियः

राज्ञ आवेदयां चक्रुः सर्वयादवसन्निधौ १९

श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुषलं नृप

विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः २०

तच्चूर्णयित्वा मुषलं यदुराजः स आहुकः

समुद्र सलिले प्रास्यल्लोहं चास्यावशेषितम् २१

कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः

उह्यमानानि वेलायां लग्नान्यासन्किलैरकाः २२

मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे

तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् २३

भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा

कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत २४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे प्रथमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः