શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

सूत उवाच

स एवमनुभूयेदं नारायणविनिर्मितम्

वैभवं योगमायायास्तमेव शरणं ययौ १

श्रीमार्कण्डेय उवाच

प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे

यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया २

सूत उवाच

तमेवं निभृतात्मानं वृषेण दिवि पर्यटन्

रुद्रा ण्या भगवान्रुद्रो ददर्श स्वगणैर्वृतः ३

अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत

पश्येमं भगवन्विप्रं निभृतात्मेन्द्रि याशयम् ४

निभृतोदझषव्रातो वातापाये यथार्णवः

कुर्वस्य तपसः साक्षात्संसिद्धिं सिद्धिदो भवान् ५

श्रीभगवानुवाच

नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत

भक्तिं परां भगवति लब्धवान्पुरुषेऽव्यये ६

अथापि संवदिष्यामो भवान्येतेन साधुना

अयं हि परमो लाभो नृणां साधुसमागमः ७

सूत उवाच

इत्युक्त्वा तमुपेयाय भगवान्स सतां गतिः

ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ८

तयोरागमनं साक्षादीशयोर्जगदात्मनोः

न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ९

भगवांस्तदभिज्ञाय गिरिशो योगमायया

आविशत्तद्गुहाकाशं वायुश्छिद्र मिवेश्वरः १०

आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम्

त्र्! यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम् ११

व्याघ्रचर्माम्बरं शूल धनुरिष्वसिचर्मभिः

अक्षमालाडमरुक कपालं परशुं सह १२

बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः

किमिदं कुत एवेति समाधेर्विरतो मुनिः १३

नेत्रे उन्मील्य ददृशे सगणं सोमयागतम्

रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः १४

तस्मै सपर्यां व्यदधात्सगणाय सहोमया

स्वागतासनपाद्यार्घ्य गन्धस्रग्धूपदीपकैः १५

आह त्वात्मानुभावेन पूर्णकामस्य ते विभो

करवाम किमीशान येनेदं निर्वृतं जगत् १६

नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च

रजोजुषेऽथ घोराय नमस्तुभ्यं तमोजुषे १७

सूत उवाच

एवं स्तुतः स भगवानादिदेवः सतां गतिः

परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत १८

श्रीभगवानुवाच

वरं वृणीष्व नः कामं वरदेशा वयं त्रयः

अमोघं दर्शनं येषां मर्त्यो यद्विन्दतेऽमृतम् १९

ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः

एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः २०

सलोका लोकपालास्तान्वन्दन्त्यर्चन्त्युपासते

अहं च भगवान्ब्रह्मा स्वयं च हरिरीश्वरः २१

न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते

नात्मनश्च जनस्यापि तद्युष्मान्वयमीमहि २२

न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः

ते पुनन्त्युरुकालेन यूयं दर्शनमात्रतः २३

ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रू पं त्रयीमयम्

बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः २४

श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः

शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः २५

सूत उवाच

इति चन्द्र ललामस्य धर्मगह्योपबृंहितम्

वचोऽमृतायनमृषिर्नातृप्यत्कर्णयोः पिबन् २६

स चिरं मायया विष्णोर्भ्रामितः कर्शितो भृशम्

शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत् २७

श्रीमार्कण्डेय उवाच

अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम्

यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः २८

धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम्

आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च २९

नैतावता भगवतः स्वमायामयवृत्तिभिः

न दुष्येतानुभावस्तैर्मायिनः कुहकं यथा ३०

सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्य यः

गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग्यथा ३१

तस्मै नमो भगवते त्रिगुणाय गुणात्मने

केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ३२

कं वृणे नु परं भूमन्वरं त्वद्वरदर्शनात्

यद्दर्शनात्पूर्णकामः सत्यकामः पुमान्भवेत् ३३

वरमेकं वृणेऽथापि पूर्णात्कामाभिवर्षणात्

भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ३४

सूत उवाच

इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा

तमाह भगवाञ्छर्वः शर्वया चाभिनन्दितः ३५

कामो महर्षे सर्वोऽयं भक्तिमांस्त्वमधोक्षजे

आकल्पान्ताद्यशः पुण्यमजरामरता तथा ३६

ज्ञानं त्रैकालिकं ब्रह्मन्विज्ञानं च विरक्तिमत्

ब्रह्मवर्चस्विनो भूयात्पुराणाचार्यतास्तु ते ३७

सूत उवाच

एवं वरान्स मुनये दत्त्वागात्त्र्! यक्ष ईश्वरः

देव्यै तत्कर्म कथयन्ननुभूतं पुरामुना ३८

सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः

विचरत्यधुनाप्यद्धा हरावेकान्ततां गतः ३९

अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः

अनुभूतं भगवतो मायावैभवमद्भुतम् ४०

एतत्केचिदविद्वांसो मायासंसृतिरात्मनः

अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ४१

य एवमेतद्भृगुवर्य वर्णितं रथाङ्गपाणेरनुभावभावितम्

संश्रावयेत्संशृणुयादु तावुभौ तयोर्न कर्माशयसंसृतिर्भवेत् ४२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे दशमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः