શ્રીમદ્ભાગવતપુરાણ
अथ त्रयोदशोऽध्यायः
श्रीशुक उवाच
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद
सपाला ह्यभवन्सद्यो विज्वरा निर्वृतेन्द्रि याः १
देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम्
प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रा दयस्ततः २
श्रीराजोवाच
इन्द्र स्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने
येनासन्सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ३
श्रीशुक उवाच
वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः
तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ४
इन्द्र उवाच
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम्
विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ५
श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्र मिदमब्रुवन्
याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ६
हयमेधेन पुरुषं परमात्मानमीश्वरम्
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ७
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान्
श्वादः पुल्कसको वापि शुद्ध्येरन्यस्य कीर्तनात् ८
तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन
हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण ९
श्रीशुक उवाच
एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रि पुम्
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् १०
तयेन्द्रः! स्मासहत्तापं निर्वृतिर्नामुमाविशत्
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ११
तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम्
जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् १२
विकीर्य पलितान्केशांस्तिष्ठ तिष्ठेति भाषिणीम्
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् १३
नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते
प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् १४
स आवसत्पुष्करनालतन्तूनलब्धभोगो यदिहाग्निदूतः
वर्षाणि साहस्रमलक्षितोऽन्तः सञ्चिन्तयन्ब्रह्मवधाद्विमोक्षम् १५
तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः
स सम्पदैश्वर्यमदान्धबुद्धिर्नीतस्तिरश्चां गतिमिन्द्र पत्न्या १६
ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः
पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या १७
तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत
यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह १८
अथेज्यमाने पुरुषे सर्वदेवमयात्मनि
अश्वमेधे महेन्द्रे ण वितते ब्रह्मवादिभिः १९
स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप
नीतस्तेनैव शून्याय नीहार इव भानुना २०
स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः
इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः २१
इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम्
भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्र मोक्षं विजयं मरुत्वतः २२
पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रि यम्
धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् २३
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्र विजयो नाम त्रयोदशोऽध्यायः