શ્રીમદ્ભાગવતપુરાણ
अथ पञ्चदशोऽध्यायः
श्रीराजोवाच
बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत
भूतेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् १
एतद्वेदितुमिच्छामो महत्कौतूहलं हि नः
यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः २
श्रीशुक उवाच
पराजितश्रीरसुभिश्च हापितो हीन्द्रे ण राजन्भृगुभिः स जीवितः
सर्वात्मना तानभजद्भृगून्बलिः शिष्यो महात्मार्थनिवेदनेन ३
तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन्विश्वजिता त्रिणाकम्
जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ४
ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः
ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ५
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम्
पितामहस्तस्य ददौ च मालामम्लानपुष्पां जलजं च शुक्रः ६
एवं स विप्रार्जितयोधनार्थस्तैः कल्पितस्वस्त्ययनोऽथ विप्रान्
प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्! य नमश्चकार ७
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः
सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ८
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ९
तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः
पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव १०
वृतो विकर्षन्महतीमासुरीं ध्वजिनीं विभुः
ययाविन्द्र पुरीं स्वृद्धां कम्पयन्निव रोदसी ११
रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः १२
प्रवालफलपुष्पोरु भारशाखामरद्रुमैः
हंससारसचक्राह्व कारण्डवकुलाकुलाः
नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः १३
आकाशगङ्गया देव्या वृतां परिखभूतया
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च १४
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः
जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् १५
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम्
शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः १६
यत्र नित्यवयोरूपाः श्यामा विरजवाससः
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः १७
सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम्
यत्रामोदमुपादाय मार्ग आवाति मारुतः १८
हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना
पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः १९
मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलभीभिरावृताम्
शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् २०
मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः
नृत्यैः सवाद्यैरुपदेवगीतकैर्मनोरमां स्वप्रभया जितप्रभाम् २१
यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः
मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् २२
तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया
आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन्भयमिन्द्र योषिताम् २३
मघवांस्तमभिप्रेत्य बलेः परममुद्यमम्
सर्वदेवगणोपेतो गुरुमेतदुवाच ह २४
भगवन्नुद्यमो भूयान्बलेर्नः पूर्ववैरिणः
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः २५
नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः
पिबन्निव मुखेनेदं लिहन्निव दिशो दश
दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः २६
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रि पोः
ओजः सहो बलं तेजो यत एतत्समुद्यमः २७
श्रीगुरुरुवाच
जानामि मघवन्छत्रोरुन्नतेरस्य कारणम्
शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः २८
ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन
भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् २९
विजेष्यति न कोऽप्येनं ब्रह्मतेजःसमेधितम्
नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ३०
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम्
यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ३१
एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः
तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ३२
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ३३
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम्
देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ३४
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः
शतेन हयमेधानामनुव्रतमयाजयन् ३५
ततस्तदनुभावेन भुवनत्रयविश्रुताम्
कीर्तिं दिक्षुवितन्वानः स रेज उडुराडिव ३६
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम्
कृतकृत्यमिवात्मानं मन्यमानो महामनाः ३७
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे पञ्चदशोऽध्यायः