શ્રીમદ્ભાગવતપુરાણ
अथ द्वितीयोऽध्यायः
श्रीशुक उवाच
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह
अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः १
को नु राजन्निन्द्रि यवान्मुकुन्दचरणाम्बुजम्
न भजेत्सर्वतोमृत्युरुपास्यममरोत्तमैः २
तमेकदा तु देवर्षिं वसुदेवो गृहागतम्
अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ३
श्रीवसुदेव उवाच
भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम्
कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ४
भूतानां देवचरितं दुःखाय च सुखाय च
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ५
भजन्ति ये यथा देवान्देवा अपि तथैव तान्
छायेव कर्मसचिवाः साधवो दीनवत्सलाः ६
ब्रह्मंस्तथापि पृच्छामो धर्मान्भागवतांस्तव
यान्श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ७
अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम्
अपूजयं न मोक्षाय मोहितो देवमायया ८
यथा विचित्रव्यसनाद्भवद्भिर्विश्वतोभयात्
मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ९
श्रीशुक उवाच
राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता
प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः १०
श्रीनारद उवाच
सम्यगेतद्व्यवसितं भवता सात्वतर्षभ
यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान् ११
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः
सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि १२
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः
स्मारितो भगवानद्य देवो नारायणो मम १३
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
आर्षभाणां च संवादं विदेहस्य महात्मनः १४
प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः
तस्याग्नीध्रस्ततो नाभिरृषभस्तत्सुतः स्मृतः १५
तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया
अवतीर्णं सुतशतं तस्यासीद्ब्रह्मपारगम् १६
तेषां वै भरतो ज्येष्ठो नारायणपरायणः
विख्यातं वर्षमेतद्यन् नाम्ना भारतमद्भुतम् १७
स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम्
उपासीनस्तत्पदवीं लेभे वै जनृनभिस्त्रिभिः १८
तेषां नव नवद्वीप पतयोऽस्य समन्ततः
कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः १९
नवाभवन्महाभागा मुनयो ह्यर्थशंसिनः
श्रमणा वातरसना आत्मविद्याविशारदाः २०
कविर्हविरन्तरीक्षः प्रबुद्धः पिप्पलायनः
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः २१
त एते भगवद्रू पं विश्वं सदसदात्मकम्
आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्महीम् २२
अव्याहतेष्टगतयः सुरसिद्धसाध्य
गन्धर्वयक्षनरकिन्नरनागलोकान्
मुक्ताश्चरन्ति मुनिचारणभूतनाथ
विद्याधरद्विजगवां भुवनानि कामम् २३
त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया
वितायमानमृषिभिरजनाभे महात्मनः २४
तान्दृष्ट्वा सूर्यसङ्काशान्महाभागवतान्नृप
यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे २५
विदेहस्तानभिप्रेत्य नारायणपरायणान्
प्रीतः सम्पूजयां चक्रे आसनस्थान्यथार्हतः २६
तान्रोचमानान्स्वरुचा ब्रह्मपुत्रोपमान्नव
पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः २७
श्रीविदेह उवाच
मन्ये भगवतः साक्षात्पार्षदान्वो मधुद्विसः
विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि २८
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः
तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् २९
अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः
संसारेऽस्मिन्क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ३०
धर्मान्भागवतान्ब्रूत यदि नः श्रुतये क्षमम्
यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ३१
श्रीनारद उवाच
एवं ते निमिना पृष्टा वसुदेव महत्तमाः
प्रतिपूज्याब्रुवन्प्रीत्या ससदस्यर्त्विजं नृपम् ३२
श्रीकविरुवाच
मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम्
उद्विग्नबुद्धेरसदात्मभावाद्विश्वात्मना यत्र निवर्तते भीः ३३
ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये
अञ्जः पुंसामविदुषां विद्धि भागवतान्हि तान् ३४
यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित्
धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह ३५
कायेन वाचा मनसेन्द्रि यैर्वा बुद्ध्यात्मना वानुसृतस्वभावात्
करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ३६
भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य विपर्ययोऽस्मृतिः
तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ३७
अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा
तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात् ३८
शृण्वन्सुभद्रा णि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके
गीतानि नामानि तदर्थकानि गायन्विलज्जो विचरेदसङ्गः ३९
एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः
हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोकबाह्यः ४०
खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन्
सरित्समुद्रा श्चं! हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ४१
भक्तिः परेशानुभवो विरक्तिरन्यत्र चैष त्रिक एककालः
प्रपद्यमानस्य यथाश्नतः स्युस्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ४२
इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः
भवन्ति वै भागवतस्य राजंस्ततः परां शान्तिमुपैति साक्षात् ४३
श्रीराजोवाच
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम्
यथाचरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ४४
श्रीहविरुवाच
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ४५
ईस्वरे तदधीनेषु बालिशेषु द्विषत्सु च
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ४६
अर्चायामेव हरये पूजां यः श्रद्धयेहते
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ४७
गृहीत्वापीन्द्रि यैरर्थान्यो न द्वेष्टि न हृष्यति
विष्णोर्मायामिदं पश्यन्स वै भागवतोत्तमः ४८
देहेन्द्रि यप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः
संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ४९
न कामकर्मबीजानां यस्य चेतसि सम्भवः
वासुदेवैकनिलयः स वै भागवतोत्तमः ५०
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः
सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः ५१
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा
सर्वभूतसमः शान्तः स वै भागवतोत्तमः ५२
त्रिभुवनविभवहेतवेऽप्यकुण्ठ
स्मृतिरजितात्मसुरादिभिर्विमृग्यात्
न चलति भगवत्पदारविन्दाल्
लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ५३
भगवत उरुविक्रमाङ्घ्रिशाखा नखमणिचन्द्रि कया निरस्ततापे
हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ५४
विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहितोऽप्यघौघनाशः
प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ५५
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे द्वितीयोऽध्यायः