શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रयोविंशोऽध्यायः

श्रीशुक उवाच

इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसम्मतः

बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत् १

श्रीबलिरुवाच

अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः

यल्लोकपालैस्त्वदनुग्रहोऽमरैरलब्धपूर्वोऽपसदेऽसुरेऽर्पितः २

श्रीशुक उवाच

इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः

विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ३

एवमिन्द्रा य भगवान्प्रत्यानीय त्रिविष्टपम्

पूरयित्वादितेः काममशासत्सकलं जगत् ४

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम्

निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ५

श्रीप्रह्राद उवाच

नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरेऽन्ये

यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ६

यत्पादपद्ममकरन्दनिषेवणेन

ब्रह्मदयः शरणदाश्नुवते विभूतीः

कस्माद्वयं कुसृतयः खलयोनयस्ते

दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ७

चित्रं तवेहितमहोऽमितयोगमाया

लीलाविसृष्टभुवनस्य विशारदस्य

सर्वात्मनः समदृशोऽविषमः स्वभावो

भक्तप्रियो यदसि कल्पतरुस्वभावः ८

श्रीभगवानुवाच

वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम्

मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ९

नित्यं द्र ष्टासि मां तत्र गदापाणिमवस्थितम्

मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः १०

श्रीशुक उवाच

आज्ञां भगवतो राजन्प्रह्रादो बलिना सह

बाढमित्यमलप्रज्ञो मूर्ध्न्यर्याधाय कृताञ्जलिः ११

परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः

प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् १२

अथाहोशनसं राजन्हरिर्नारायणोऽन्तिके

आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् १३

ब्रह्मन्सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः

यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् १४

श्रीशुक्र उवाच

कुस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान्

यज्ञेशो यज्ञपुरुः सर्वभावेन पूजितः १५

मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः

सर्वं करोति निश्छिद्र मनुसङ्कीर्तनं तव १६

तथापि वदतो भूमन्करिष्याम्यनुशासनम्

एतच्छ्रेयः परं पुंसां यत्तवाज्ञानुपालनम् १७

श्रीशुक उवाच

प्रतिनन्द्य हरेराज्ञामुशना भगवानिति

यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह १८

एवं बलेर्महीं राजन्भिक्षित्वा वामनो हरिः

ददौ भ्रात्रे महेन्द्रा य त्रिदिवं यत्परैर्हृतम् १९

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः

दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च २०

कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च

लोकानां लोकपालानामकरोद्वामनं पतिम् २१

वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः

मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः २२

उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये

तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप २३

ततस्त्विन्द्रः! पुरस्कृत्य देवयानेन वामनम्

लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः २४

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्र भुजपालितः

श्रिया परमया जुष्टो मुमुदे गतसाध्वसः २५

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप

पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये २६

सुमहत्कर्म तद्विष्णोर्गायन्तः परमद्भुतम्

धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे २७

सर्वमेतन्मयाख्यातं भवतः कुलनन्दन

उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् २८

पारं महिम्न उरुविक्रमतो गृणानो

यः पार्थिवानि विममे स रजांसि मर्त्यः

किं जायमान उत जात उपैति मर्त्य

इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य २९

य इदं देवदेवस्य हरेरद्भुतकर्मणः

अवतारानुचरितं शृण्वन्याति परां गतिम् ३०

क्रियमाणे कर्मणीदं दैवे पित्र्! येऽथ मानुषे

यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ३१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः