શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टविंशोऽध्यायः

श्रीबादरायणिरुवाच

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम्

स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् १

तं गृहीत्वानयद्भृत्यो वरुणस्यासुरोऽन्तिकम्

अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि २

चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः

भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम्

तदन्तिकं गतो राजन्स्वानामभयदो विभुः ३

प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया

महत्या पूजयित्वाह तद्दर्शनमहोत्सवः ४

श्रीवरुण उवाच

अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो

त्वत्पादभाजो भगवन्नवापुः पारमध्वनः ५

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने

न यत्र श्रूयते माया लोकसृष्टिविकल्पना ६

अजानता मामकेन मूढेनाकार्यवेदिना

आनीतोऽयं तव पिता तद्भवान्क्षन्तुमर्हति ७

ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक्

गोविन्द नीयतामेष पिता ते पितृवत्सल ८

श्रीशुक उवाच

एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः

आदायागात्स्वपितरं बन्धूनां चावहन्मुदम् ९

नन्दस्त्वतीन्द्रि यं दृष्ट्वा लोकपालमहोदयम्

कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् १०

ते चौत्सुक्यधियो राजन्मत्वा गोपास्तमीश्वरम्

अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः ११

इति स्वानां स भगवान्विज्ञायाखिलदृक्स्वयम्

सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् १२

जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः

उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् १३

इति सञ्चिन्त्य भगवान्महाकारुणिको हरिः

दर्शयामास लोकं स्वं गोपानां तमसः परम् १४

सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम्

यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः १५

ते तु ब्रह्मह्रदम्नीता मग्नाः कृष्णेन चोद्धृताः

ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा १६

नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः

कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः १७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धेऽष्टाविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः