શ્રીમદ્‌ભાગવતપુરાણ

अथ तृतीयोऽध्यायः

श्रीराजोवाच

निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तानपि धर्मराजः

एवं हताज्ञो विहतान्मुरारेर्नैदेशिकैर्यस्य वशे जनोऽयम् १

यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत्

एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् २

श्रीशुक उवाच

भगवत्पुरुषै राजन्याम्याः प्रतिहतोद्यमाः

पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ३

यमदूता ऊचुः

कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो

त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ४

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः

कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ५

किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम्

शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ६

अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः

शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ७

तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना

चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ८

नीयमानं तवादेशादस्माभिर्यातनागृहान्

व्यामोचयन्पातकिनं छित्त्वा पाशान्प्रसह्य ते ९

तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम्

नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् १०

श्रीबादरायणिरुवाच

इति देवः स आपृष्टः प्रजासंयमनो यमः

प्रीतः स्वदूतान्प्रत्याह स्मरन्पादाम्बुजं हरेः ११

यम उवाच

परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम्

यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद्यस्य वशे च लोकः १२

यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्! यामिव दामभिर्गाः

यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति १३

अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनो विरिञ्चिः

आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्र गणाः ससिद्धाः १४

अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः

यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये १५

यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते

आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् १६

तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः

प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रू पगुणस्वभावाः १७

भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि

रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च १८

धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः

न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः १९

स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः

प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् २०

द्वादशैते विजानीमो धर्मं भागवतं भटाः

गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते २१

एतावानेव लोकेऽस्मिन्पुंसां धर्मः परः स्मृतः

भक्तियोगो भगवति तन्नामग्रहणादिभिः २२

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः

अजामिलोऽपि येनैव मृत्युपाशादमुच्यत २३

एतावतालमघनिर्हरणाय पुंसां

सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम्

विक्रुश्य पुत्रमघवान्यदजामिलोऽपि

नारायणेति म्रियमाण इयाय मुत्तिम् २४

प्रायेण वेद तदिदं न महाजनोऽयं

देव्या विमोहितमतिर्बत माययालम्

त्रय्यां जडीकृतमतिर्मधुपुष्पितायां

वैतानिके महति कर्मणि युज्यमानः २५

एवं विमृश्य सुधियो भगवत्यनन्ते

सर्वात्मना विदधते खलु भावयोगम्

ते मे न दण्डमर्हन्त्यथ यद्यमीषां

स्यात्पातकं तदपि हन्त्युरुगायवादः २६

ते देवसिद्धपरिगीतपवित्रगाथा

ये साधवः समदृशो भगवत्प्रपन्नाः

तान्नोपसीदत हरेर्गदयाभिगुप्तान्

नैषां वयं न च वयः प्रभवाम दण्डे २७

तानानयध्वमसतो विमुखान्मुकुन्द

पादारविन्दमकरन्दरसादजस्रम्

निष्किञ्चनैः परमहंसकुलैरसङ्गैर्

जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् २८

जिह्वा न वक्ति भगवद्गुणनामधेयं

चेतश्च न स्मरति तच्चरणारविन्दम्

कृष्णाय नो नमति यच्छिर एकदापि

तानानयध्वमसतोऽकृतविष्णुकृत्यान् २९

तत्क्षम्यतां स भगवान्पुरुषः पुराणो

नारायणः स्वपुरुषैर्यदसत्कृतं नः

स्वानामहो न विदुषां रचिताञ्जलीनां

क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ३०

तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम्

महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ३१

शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः

यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ३२

कृष्णाङ्घ्रिपद्ममधुलिण्न पुनर्विसृष्ट

मायागुणेषु रमते वृजिनावहेषु

अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम्

ईहेत कर्म यत एव रजः पुनः स्यात् ३३

इत्थं स्वभर्तृगदितं भगवन्महित्वं

संस्मृत्य विस्मितधियो यमकिङ्करास्ते

नैवाच्युताश्रयजनं प्रतिशङ्कमाना

द्र ष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ३४

इतिहासमिमं गुह्यं भगवान्कुम्भसम्भवः

कथयामास मलय आसीनो हरिमर्चयन् ३५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः