શ્રીમદ્‌ભાગવતપુરાણ

अथैकोनचत्वारिंशोऽध्यायः

श्रीशुक उवाच

सुखोपविष्टः पर्यङ्के रमकृष्णोरुमानितः

लेभे मनोरथान्सर्वान्पथि यान्स चकार ह १

किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने

तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन २

सायन्तनाशनं कृत्वा भगवान्देवकीसुतः

सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ३

श्रीभगवानुवाच

तात सौम्यागतः कच्चित्स्वागतं भद्र मस्तु वः

अपि स्वज्ञातिबन्धूनामनमीवमनामयम् ४

किं नु नः कुशलं पृच्छे एधमाने कुलामये

कंसे मातुलनाम्नाङ्ग स्वानां नस्तत्प्रजासु च ५

अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः

यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ६

दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम्

सञ्जातं वर्ण्यतां तात तवागमनकारणम् ७

श्रीशुक उवाच

पृष्टो भगवता सर्वं वर्णयामास माधवः

वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ८

यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम्

यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ९

श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा

प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः १०

गोपान्समादिशत्सोऽपि गृह्यतां सर्वगोरसः

उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ११

यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान्

द्र क्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल

एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले १२

गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम्

रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् १३

काश्चित्तत्कृतहृत्ताप श्वासम्लानमुखश्रियः

स्रंसद्दुकूलवलय केशग्रन्थ्यश्च काश्चन १४

अन्याश्च तदनुध्यान निवृत्ताशेषवृत्तयः

नाभ्यजानन्निमं लोकमात्मलोकं गता इव १५

स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः

हृदिस्पृशश्चित्रपदा गिरः सम्मुमुहुः स्त्रियः १६

गतिं सुललितां चेष्टां स्निग्धहासावलोकनम्

शोकापहानि नर्माणि प्रोद्दामचरितानि च १७

चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः

समेताः सङ्घशः प्रोचुरश्रुमुख्योऽच्युताशयाः १८

श्रीगोप्य ऊचुः

अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्र्! या प्रणयेन देहिनः

तांश्चाकृतार्थान्वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा १९

यस्त्वं प्रदर्श्यासितकुन्तलावृतं

मुकुन्दवक्त्रं सुकपोलमुन्नसम्

शोकापनोदस्मितलेशसुन्दरं

करोषि पारोक्ष्यमसाधु ते कृतम् २०

क्रूरस्त्वमक्रूरसमाख्यया स्म नश्

चक्षुर्हि दत्तं हरसे बताज्ञवत्

येनैकदेशेऽखिलसर्गसौष्ठवं

त्वदीयमद्रा क्ष्म वयं मधुद्विषः २१

न नन्दसूनुः क्षणभङ्गसौहृदः

समीक्षते नः स्वकृतातुरा बत

विहाय गेहान्स्वजनान्सुतान्पतींस्

तद्दास्यमद्धोपगता नवप्रियः २२

सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम्

याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत्कलितस्मितासवम् २३

तासां मुकुन्दो मधुमञ्जुभाषितैर्

गृहीतचित्तः परवान्मनस्व्यपि

कथं पुनर्नः प्रतियास्यतेऽबला

ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् २४

अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम्

महोत्सवः श्रीरमणं गुणास्पदं द्र क्ष्यन्ति ये चाध्वनि देवकीसुतम् २५

मैतद्विधस्याकरुणस्य नाम भूदक्रूर इत्येतदतीव दारुणः

योऽसावनाश्वास्य सुदुःखितम्जनं प्रियात्प्रियं नेष्यति पारमध्वनः २६

अनार्द्र धीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः

गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते २७

निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन्कुलवृद्धबान्धवाः

मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद्दैवेन विध्वंसितदीनचेतसाम् २८

यस्यानुरागललितस्मितवल्गुमन्त्र

लीलावलोकपरिरम्भणरासगोष्ठाम्

नीताः स्म नः क्षणमिव क्षणदा विना तं

गोप्यः कथं न्वतितरेम तमो दुरन्तम् २९

योऽह्नः क्षये व्रजमनन्तसखः परीतो

गोपैर्विशन्खुररजश्छुरितालकस्रक्

वेणुं क्वणन्स्मितकताक्षनिरीक्षणेन

चित्तं क्षिणोत्यमुमृते नु कथं भवेम ३०

श्रीशुक उवाच

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः

विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ३१

स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ

अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ३२

गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः

आदायोपायनं भूरि कुम्भान्गोरससम्भृतान् ३३

गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः

प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ३४

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाणे यदूत्तमः

सान्त्वयामस सप्रेमैरायास्य इति दौत्यकैः ३५

यावदालक्ष्यते केतुर्यावद्रे णू रथस्य च

अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ३६

ता निराशा निववृतुर्गोविन्दविनिवर्तने

विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ३७

भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप

रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ३८

तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम्

वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ३९

अक्रूरस्तावुपामन्त्र्! य निवेश्य च रथोपरि

कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ४०

निमज्ज्य तस्मिन्सलिले जपन्ब्रह्म सनातनम्

तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ४१

तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः

तर्हि स्वित्स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ४२

तत्रापि च यथापूर्वमासीनौ पुनरेव सः

न्यमज्जद्दर्शनं यन्मे मृषा किं सलिले तयोः ४३

भूयस्तत्रापि सोऽद्रा क्षीत्स्तूयमानमहीश्वरम्

सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः ४४

सहस्रशिरसं देवं सहस्रफणमौलिनम्

नीलाम्बरं विसश्वेतं शृङ्गैः श्वेतमिव स्थितम् ४५

तस्योत्सङ्गे घनस्यामं पीतकौशेयवाससम्

पुरुषं चतुर्भुजं शान्तम्पद्मपत्रारुणेक्षणम् ४६

चारुप्रसन्नवदनं चारुहासनिरीक्षणम्

सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम् ४७

प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम्

कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ४८

बृहत्कतिततश्रोणि करभोरुद्वयान्वितम्

चारुजानुयुगं चारु जङ्घायुगलसंयुतम् ४९

तुङ्गगुल्फारुणनख व्रातदीधितिभिर्वृतम्

नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् ५०

सुमहार्हमणिव्रात किरीटकटकाङ्गदैः

कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः ५१

भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम्

श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ५२

सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः

सुरेशैर्ब्रह्मरुद्रा द्यैर्नवभिश्च द्विजोत्तमैः ५३

प्रह्रादनारदवसु प्रमुखैर्भागवतोत्तमैः

स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभिः ५४

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया

विद्ययाविद्यया शक्त्या मायया च निषेवितम् ५५

विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः

हृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः ५६

गिरा गद्गदयास्तौषीत्सत्त्वमालम्ब्य सात्वतः

प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ५७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धेऽक्रूरप्रतियाने एकोनचत्वारिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः