શ્રીમદ્ભાગવતપુરાણ
अथ त्रिचत्वारिंशोऽध्यायः
श्रीशुक उवाच
अथ कृष्णश्च रामश्च कृतशौचौ परन्तप
मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्र ष्टुमुपेयतुः १
रङ्गद्वारं समासाद्य तस्मिन्नागमवस्थितम्
अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् २
बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान्
उवाच हस्तिपं वाचा मेघनादगभीरया ३
अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम्
नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ४
एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम्
चोदयामास कृष्णाय कालान्तकयमोपमम् ५
करीन्द्र स्तमभिद्रुत्य करेण तरसाग्रहीत्
कराद्विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ६
सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम्
परामृशत्पुष्करेण स प्रसह्य विनिर्गतः ७
पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम्
विचकर्ष यथा नागं सुपर्ण इव लीलया ८
स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः
बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ९
ततोऽभिमखमभ्येत्य पाणिनाहत्य वारणम्
प्राद्र वन्पातयामास स्पृश्यमानः पदे पदे १०
स धावन्कृईदया भूमौ पतित्वा सहसोत्थितः
तम्मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत्क्षितिम् ११
स्वविक्रमे प्रतिहते कुञ्जरेन्द्रो ऽत्यमर्षितः
चोद्यमानो महामात्रैः कृष्णमभ्यद्र वद्रुषा १२
तमापतन्तमासाद्य भगवान्मधुसूदनः
निगृह्य पाणिना हस्तं पातयामास भूतले १३
पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया
दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः १४
मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत्
अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः
विरूढस्वेदकणिका वदनाम्बुरुहो बभौ १५
वृतौ गोपैः कतिपयैर्बलदेवजनार्दनौ
रङ्गं विविशतू राजन्गजदन्तवरायुधौ १६
मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः
मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां
वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः १७
हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ
कंसो मनस्यपि तदा भृशमुद्विविजे नृप १८
तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ
यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् १९
निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप
प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् २०
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः २१
ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम्
तद्रू पगुणमाधुर्य प्रागल्भ्यस्मारिता इव २२
एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि
अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि २३
एष वै किल देवक्यां जातो नीतश्च गोकुलम्
कालमेतं वसन्गूढो ववृधे नन्दवेश्मनि २४
पूतनानेन नीतान्तं चक्रवातश्च दानवः
अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः २५
गावः सपाला एतेन दावाग्नेः परिमोचिताः
कालियो दमितः सर्प इन्द्र श्च विमदः कृतः २६
सप्ताहमेकहस्तेन धृतोऽद्रि प्रवरोऽमुना
वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् २७
गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम्
पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रमं मुदा २८
वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः
श्रियं यशो महत्वं च लप्स्यते परिक्षितः २९
अयं चास्याग्रजः श्रीमान्रामः कमललोचनः
प्रलम्बो निहतो येन वत्सको ये बकादयः ३०
जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च
कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ३१
हे नन्दसूनो हे राम भवन्तौ वीरसम्मतौ
नियुद्धकुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा ३२
प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः
मनसा कर्मणा वाचा विपरीतमतोऽन्यथा ३३
नित्यं प्रमुदिता गोपा वत्सपाला यथास्फुटम्
वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ३४
तस्माद्रा ज्ञः प्रियं यूयं वयं च करवाम हे
भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ३५
तन्निशम्याब्रवीत्कृष्णो देशकालोचितं वचः
नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ३६
प्रजा भोजपतेरस्य वयं चापि वनेचराः
करवाम प्रियं नित्यं तन्नः परमनुग्रहः ३७
बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम्
भवेन्नियुद्धं माधर्मः स्पृशेन्मल्लसभासदः ३८
चाणूर उवाच
न बालो न किशोरस्त्वं बलश्च बलिनां वरः
लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ३९
तस्माद्भवद्भ्यां बलिभिर्योद्धव्यं नानयोऽत्र वै
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ४०
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः