શ્રીમદ્ભાગવતપુરાણ
अथ पञ्चमोऽध्यायः
श्रीशुक उवाच
नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः
आहूय विप्रान्वेदज्ञान्स्नातः शुचिरलङ्कृतः १
वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै
कारयामास विधिवत्पितृदेवार्चनं तथा २
धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते
तिलाद्री न्सप्त रत्नौघ शातकौम्भाम्बरावृतान् ३
कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया
शुध्यन्ति दानैः सन्तुष्ट्या द्र व्याण्यात्मात्मविद्यया ४
सौमङ्गल्यगिरो विप्राः सूतमागधवन्दिनः
गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः ५
व्रजः सम्मृष्टसंसिक्त द्वाराजिरगृहान्तरः
चित्रध्वजपताकास्रक् चैलपल्लवतोरणैः ६
गावो वृषा वत्सतरा हरिद्रा तैलरूषिताः
विचित्रधातुबर्हस्रग् वस्त्रकाञ्चनमालिनः ७
महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः
गोपाः समाययू राजन्नानोपायनपाणयः ८
गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम्
आत्मानं भूषयां चक्रुर्वस्त्राकल्पाञ्जनादिभिः ९
नवकुङ्कुमकिञ्जल्क मुखपङ्कजभूतयः
बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः १०
गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्यश्
चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः
नन्दालयं सवलया व्रजतीर्विरेजुर्
व्यालोलकुण्डलपयोधरहारशोभाः ११
ता आशिषः प्रयुञ्जानाश्चिरं पाहीति बालके
हरिद्रा चूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः १२
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे
कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते १३
गोपाः परस्परं हृष्टा दधिक्षीरघृताम्बुभिः
आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपुः १४
नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम्
सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः १५
तैस्तैः कामैरदीनात्मा यथोचितमपूजयत्
विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च १६
रोहिणी च महाभागा नन्दगोपाभिनन्दिता
व्यचरद्दिव्यवासस्रक् कण्ठाभरणभूषिता १७
तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान्
हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप १८
गोपान्गोकुलरक्षायां निरूप्य मथुरां गतः
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह १९
वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम्
ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम् २०
तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम्
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः २१
पूजितः सुखमासीनः पृष्ट्वानामयमादृतः
प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते २२
दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते
प्रजाशाया निवृत्तस्य प्रजा यत्समपद्यत २३
दिष्ट्या संसारचक्रेऽस्मिन्वर्तमानः पुनर्भवः
उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् २४
नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम्
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा २५
कच्चित्पशव्यं निरुजं भूर्यम्बुतृणवीरुधम्
बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः २६
भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे
तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः २७
पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः
न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते २८
श्रीनन्द उवाच
अहो ते देवकीपुत्राः कंसेन बहवो हताः
एकावशिष्टावरजा कन्या सापि दिवं गता २९
नूनं ह्यदृष्टनिष्ठोऽयमदृष्टपरमो जनः
अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ३०
श्रीवसुदेव उवाच
करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः
नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ३१
श्रीशुक उवाच
इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणा ययुः
अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम् ३२
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसङ्गमो नाम पञ्चमोऽध्यायः