શ્રીમદ્ભાગવતપુરાણ
अथ पञ्चमोऽध्यायः
श्रीशुक उवाच
राजन्नुदितमेतत्ते हरेः कर्माघनाशनम्
गजेन्द्र मोक्षणं पुण्यं रैवतं त्वन्तरं शृणु १
पञ्चमो रैवतो नाम मनुस्तामससोदरः
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः २
विभुरिन्द्रः! सुरगणा राजन्भूतरयादयः
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ३
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः
तयोः स्वकलया जज्ञे वैकुण्ठो भगवान्स्वयम् ४
वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ५
तस्यानुभावः कथितो गुणाश्च परमोदयाः
भौमान्रेणून्स विममे यो विष्णोर्वर्णयेद्गुणान् ६
षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः
पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ७
इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः
मुनयस्तत्र वै राजन्हविष्मद्वीरकादयः ८
तत्रापि देवसम्भूत्यां वैराजस्याभवत्सुतः
अजितो नाम भगवानंशेन जगतः पतिः ९
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा
भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः १०
श्रीराजोवाच
यथा भगवता ब्रह्मन्मथितः क्षीरसागरः
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ११
यथामृतं सुरैः प्राप्तं किं चान्यदभवत्ततः
एतद्भगवतः कर्म वदस्व परमाद्भुतम् १२
त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः
नातितृप्यति मे चित्तं सुचिरं तापतापितम् १३
श्रीसूत उवाच
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे १४
श्रीशुक उवाच
यदा युद्धेऽसुरैर्देवा बध्यमानाः शितायुधैः
गतासवो निपतिता नोत्तिष्ठेरन्स्म भूरिशः १५
यदा दुर्वासः शापेन सेन्द्रा लोकास्त्रयो नृप
निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः १६
निशाम्यैतत्सुरगणा महेन्द्र वरुणादयः
नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् १७
ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः
सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने १८
स विलोक्येन्द्र वाय्वादीन्निःसत्त्वान्विगतप्रभान्
लोकानमङ्गलप्रायानसुरानयथा विभुः १९
समाहितेन मनसा संस्मरन्पुरुषं परम्
उवाचोत्फुल्लवदनो देवान्स भगवान्परः २०
अहं भवो यूयमथोऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः
यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् २१
न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः
तथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले २२
अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम्
तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः२३
श्रीशुक उवाच
इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम
अजितस्य पदं साक्षाज्जगाम तमसः परम् २४
तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभुः
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रि यः २५
श्रीब्रह्मोवाच
अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम्
मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् २६
विपश्चितं प्राणमनोधियात्मनामर्थेन्द्रि याभासमनिद्र मव्रणम्
छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे २७
अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु
त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये २८
य एकवर्णं तमसः परं तदलोकमव्यक्तमनन्तपारम्
आसां चकारोपसुपर्णमेनमुपासते योगरथेन धीराः २९
न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम्
तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ३०
इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः
गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधानाः ३१
पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः
स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ३२
अम्भस्तु यद्रे त उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः
लोका यतोऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः ३३
सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः
ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ३४
अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा
अन्तःसमुद्रे ऽनुपचन्स्वधातून्प्रसीदतां नः स महाविभूतिः ३५
यच्चुरासीत्तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम्
द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः ३६
प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः
अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ३७
श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः
प्राणेन्द्रि यात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः ३८
बलान्महेन्द्र स्त्रिदशाः प्रसादान्मन्योर्गिरीशो धिषणाद्विरिञ्चः
खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः ३९
श्रीर्वक्षसः पितरश्छाययासन्धर्मः स्तनादितरः पृष्ठतोऽभूत्
द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात्प्रसीदतां नः स महाविभूतिः ४०
विप्रो मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च
ऊर्वोर्विडोजोऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः ४१
लोभोऽधरात्प्रीतिरुपर्यभूद्द्युतिर्नस्तः पशव्यः स्पर्शेन कामः
भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ४२
द्र व्यं वयः कर्म गुणान्विशेषं यद्योगमायाविहितान्वदन्ति
यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः ४३
नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने
गुणेषु मायारचितेषु वृत्तिभिर्न सज्जमानाय नभस्वदूतये ४४
स त्वं नो दर्शयात्मानमस्मत्करणगोचरम्
प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ४५
तैस्तैः स्वेच्छाभूतै रूपैः काले काले स्वयं विभो
कर्म दुर्विषहं यन्नो भगवांस्तत्करोति हि ४६
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ४७
नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः
कल्पते पुरुषस्यैव स ह्यात्मा दयितो हितः ४८
यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम्
एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ४९
नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ५०
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने पञ्चमोऽध्यायः