શ્રીમદ્ભાગવતપુરાણ
अथ द्विपञ्चाशत्तमोऽध्यायः
श्रीशुक उवाच
इत्थं सोऽनग्रहीतोऽन्ग कृष्णेनेक्ष्वाकु नन्दनः
तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् १
संवीक्ष्य क्षुल्लकान्मर्त्यान्पशून्वीरुद्वनस्पतीन्
मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् २
तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः
समाधाय मनः कृष्णे प्राविशद्गन्धमादनम् ३
बदर्याश्रममासाद्य नरनारायणालयम्
सर्वद्वन्द्वसहः शान्तस्तपसाराधयद्धरिम् ४
भगवान्पुनराव्रज्य पुरीं यवनवेष्टिताम्
हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् ५
नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः
आजगाम जरासन्धस्त्रयोविंशत्यनीकपः ६
विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ
मनुष्यचेष्टामापन्नौ राजन्दुद्रुवतुर्द्रुतम् ७
विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत्
पद्भ्यां पलाशाभ्यां चेलतुर्बहुयोजनम् ८
पलायमानौ तौ दृष्ट्वा मागधः प्रहसन्बली
अन्वधावद्र थानीकैरीशयोरप्रमाणवित् ९
प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम्
प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति १०
गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप
ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन् ११
तत उत्पत्य तरसा दह्यमानतटादुभौ
दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि १२
अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ
स्वपुरं पुनरायातौ समुद्र परिखां नृप १३
सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ
बलमाकृष्य सुमहन्मगधान्मागधो ययौ १४
आनर्ताधिपतिः श्रीमान्रैवतो रैवतीं सुताम्
ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम् १५
भगवानपि गोविन्द उपयेमे कुरूद्वह
वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे १६
प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान्
पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव १७
श्रीराजोवाच
भगवान्भीष्मकसुतां रुक्मिणीं रुचिराननाम्
राक्षसेन विधानेन उपयेम इति श्रुतम् १८
भगवन्श्रोतुमिच्छामि कृष्णस्यामिततेजसः
यथा मागधशाल्वादीन्जित्वा कन्यामुपाहरत् १९
ब्रह्मन्कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः
को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः २०
श्रीबादरायणिरुवाच
राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान्
तस्य पन्चाभवन्पुत्राः कन्यैका च वरानना २१
रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः
रुक्मकेशो रुक्ममाली रुक्मिण्येषा स्वसा सती २२
सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः
गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् २३
तां बुद्धिलक्षणौदार्य रूपशीलगुणाश्रयाम्
कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे २४
बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप
ततो निवार्य कृष्णद्विड्रुक्मी चैद्यममन्यत २५
तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम्
विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम् २६
द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः
अपश्यदाद्यं पुरुषमासीनं काञ्चनासने २७
दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात्
उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः २८
तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः
पाणिनाभिमृशन्पादावव्यग्रस्तमपृच्छत २९
कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः
वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा ३०
सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित्
अहीयमानः स्वद्धर्मात्स ह्यस्याखिलकामधुक् ३१
असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः
अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ३२
विप्रान्स्वलाभसन्तुष्टान्साधून्भूतसुहृत्तमान्
निरहङ्कारिणः शान्तान्नमस्ये शिरसासकृत् ३३
कच्चिद्वः कुशलं ब्रह्मन्राजतो यस्य हि प्रजाः
सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ३४
यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया
सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते ३५
एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना
लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् ३६
श्रीरुक्मिण्युवाच
श्रुत्वा गुणान्भुवनसुन्दर शृण्वतां ते
निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम्
रूपं दृशां दृशिमतामखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपं मे ३७
का त्वा मुकुन्द महती कुलशीलरूप
विद्यावयोद्र विणधामभिरात्मतुल्यम्
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोकमनोऽभिरामम् ३८
तन्मे भवान्खलु वृतः पतिरङ्ग जायाम्
आत्मार्पितश्च भवतोऽत्र विभो विधेहि
मा वीरभागमभिमर्शतु चैद्य आराद्
गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ३९
पूर्तेष्टदत्तनियमव्रतदेवविप्र
गुर्वर्चनादिभिरलं भगवान्परेशः
आराधितो यदि गदाग्रज एत्य पाणिं
गृह्णातु मे न दमघोषसुतादयोऽन्ये ४०
श्वो भाविनि त्वमजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतनापतिभिः परीतः
निर्मथ्य चैद्यमगधेन्द्र बलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ४१
अन्तःपुरान्तरचरीमनिहत्य बन्धून्
त्वामुद्वहे कथमिति प्रवदाम्युपायम्
पूर्वेद्युरस्ति महती कुलदेवयात्रा
यस्यां बहिर्नववधूर्गिरिजामुपेयात् ४२
यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो
वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं
जह्यामसून्व्रतकृशान्शतजन्मभिः स्यात् ४३
ब्राह्मण उवाच
इत्येते गुह्यसन्देशा यदुदेव मयाहृताः
विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् ४४
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहप्रस्तावे द्विपञ्चाशत्तमोऽध्यायः