શ્રીમદ્ભાગવતપુરાણ
द्विषष्टितमोऽध्यायः
श्रीराजोवाच
बाणस्य तनयामूषामुपयेमे यदूत्तमः
तत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत्
एतत्सर्वं महायोगिन्समाख्यातुं त्वमर्हसि १
श्रीशुक उवाच
बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः
येन वामनरूपाय हरयेऽदायि मेदिनी २
तस्यौरसः सुतो बानः शिवभक्तिरतः सदा
मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ३
शोणिताख्ये पुरे रम्ये स राज्यमकरोत्पुरा
तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः
सहस्रबाहुर्वाद्येन ताण्दवेऽतोषयन्मृडम् ४
भगवान्सर्वभूतेशः शरण्यो भक्तवत्सलः
वरेण छन्दयामास स तं वव्रे पुराधिपम् ५
स एकदाह गिरिशं पार्श्वस्थं वीर्यदुर्मदः
किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ६
नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम्
पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ७
दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत्
त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ८
कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम्
आद्यायां चूर्णयन्नद्री न्भीतास्तेऽपि प्रदुद्रुवुः ९
तच्छ्रुत्वा भगवान्क्रुद्धः केतुस्ते भज्यते यदा
त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते १०
इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप
प्रतीक्षन्गिरिशादेशं स्ववीर्यनशनम्कुधीः ११
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्
कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा १२
सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी
सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् १३
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता
सख्यपृच्छत्सखीमूषां कौतूहलसमन्विता १४
कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः
हस्तग्राहं न तेऽद्यापि राजपुत्र्! युपलक्षये १५
दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः
पीतवासा बृहद्बाहुर्योषितां हृदयंगमः १६
तमहं मृगये कान्तं पाययित्वाधरं मधु
क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे १७
चित्रलेखोवाच
व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते
तमानेष्ये वरं यस्ते मनोहर्ता तमादिश १८
इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान्
दैत्यविद्याधरान्यक्षान्मनुजांश्च यथालिखत् १९
मनुजेषु च सा वृष्नीन्शूरमानकदुन्दुभिम्
व्यलिखद्रा मकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता २०
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया
सोऽसावसाविति प्राह स्मयमाना महीपते २१
चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी
ययौ विहायसा राजन्द्वारकां कृष्णपालिताम् २२
तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता
गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् २३
सा च तं सुन्दरवरं विलोक्य मुदितानना
दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् २४
परार्ध्यवासःस्रग्गन्ध धूपदीपासनादिभिः
पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषणार्चितः २५
गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया
नाहर्गणान्स बुबुधे ऊषयापहृतेन्द्रि यः २६
तां तथा यदुवीरेण भुज्यमानां हतव्रताम्
हेतुभिर्लक्षयां चक्रुरापॄतां दुरवच्छदैः २७
भटा आवेदयां चक्रू राजंस्ते दुहितुर्वयम्
विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम् २८
अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो
कन्याया दूषणं पुम्भिर्दुष्प्रेक्ष्याया न विद्महे २९
ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः
त्वरितः कन्यकागारं प्राप्तोऽद्रा क्षीद्यदूद्वहम् ३०
कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम्
बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम् ३१
दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम्
बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः ३२
स तं प्रविष्टं वृतमाततायिभिर्भटैरनीकैरवलोक्य माधवः
उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ३३
जिघृक्षया तान्परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत्
ते हन्यमाना भवनाद्विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ३४
तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह
ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौत्सीत् ३५
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धेऽनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः