શ્રીમદ્ભાગવતપુરાણ
अथ पञ्चषष्टितमोऽध्यायः
श्रीशुक उवाच
बलभद्रः! कुरुश्रेष्ठ भगवान्रथमास्थितः
सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् १
परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च
रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः २
चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः
इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ३
गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः
यथावयो यथासख्यं यथासम्बन्धमात्मनः ४
समुपेत्याथ गोपालान्हास्यहस्तग्रहादिभिः
विश्रान्तम्सुखमासीनं पप्रच्छुः पर्युपागताः ५
पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा
कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ६
कच्चिन्नो बान्धवा राम सर्वे कुशलमासते
कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ७
दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः
निहत्य निर्जित्य रिपून्दिष्ट्या दुर्गं समाश्रीताः ८
गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः
कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ९
कच्चित्स्मरति वा बन्धून्पितरं मातरं च सः
अप्यसौ मातरं द्र ष्टुं सकृदप्यागमिष्यति
अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः १०
मातरं पितरं भ्रातॄन्पतीन्पुत्रान्स्वसॄनपि
यदर्थे जहिम दाशार्ह दुस्त्यजान्स्वजनान्प्रभो ११
ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः
कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् १२
कथं नु गृह्णन्त्यनवस्थितात्मनो
वचः कृतघ्नस्य बुधाः पुरस्त्रियः
गृह्णन्ति वै चित्रकथस्य सुन्दर
स्मितावलोकोच्छ्वसितस्मरातुराः १३
किं नस्तत्कथया गोप्यः कथाः कथयतापराः
यात्यस्माभिर्विना कालो यदि तस्य तथैव नः १४
इति प्रहसितं शौरेर्जल्पितं चारुवीक्षितम्
गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः १५
सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः
सान्त्वयामास भगवान्नानानुनयकोविदः १६
द्वौ मासौ तत्र चावात्सीन्मधुं माधवं एव च
रामः क्षपासु भगवान्गोपीनां रतिमावहन् १७
पूर्णचन्द्र कलामृष्टे कौमुदीगन्धवायुना
यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः १८
वरुणप्रेषिता देवी वारुणी वृक्षकोटरात्
पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् १९
तं गन्धं मधुधाराया वायुनोपहृतं बलः
आघ्रायोपगतस्तत्र ललनाभिः समं पपौ २०
उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले
रेमे करेणुयूथेशो माहेन्द्र इव वारणः २१
नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा
गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा २२
उपगीयमानचरितो वनिताभिर्हलायुध
वनेषु व्यचरत्क्षीवो मदविह्वललोचनः २३
स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया
बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् २४
स आजुहाव यमुनां जलक्रीडार्थमीश्वरः
निजं वाक्यमनादृत्य मत्त इत्यापगां बलः
अनागतां हलाग्रेण कुपितो विचकर्ष ह २५
पापे त्वं मामवज्ञाय यन्नायासि मयाहुता
नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् २६
एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम्
उवाच चकिता वाचं पतिता पादयोर्नृप २७
राम राम महाबाहो न जाने तव विक्रमम्
यस्यैकांशेन विधृता जगती जगतः पते २८
परं भावं भगवतो भगवन्मामजानतीम्
मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्तवत्सल २९
ततो व्यमुञ्चद्यमुनां याचितो भगवान्बलः
विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ३०
कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे
भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ३१
वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम्
रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ३२
अद्यापि दृश्यते राजन्यमुनाकृष्टवर्त्मना
बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ३३
एवं सर्वा निशा याता एकेव रमतो व्रजे
रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ३४
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवविजये यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः