શ્રીમદ્ભાગવતપુરાણ
अथ पञ्चसप्ततितमोऽध्यायः
श्रीराजोवाच
अजातशत्रोस्तम्दृष्ट्वा राजसूयमहोदयम्
सर्वे मुमुदिरे ब्रह्मन्नृदेवा ये समागताः १
दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः
इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् २
श्रीबादरायणिरुवाच
पितामहस्य ते यज्ञे राजसूये महात्मनः
बान्धवाः परिचर्यायां तस्यासन्प्रेमबन्धनाः ३
भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः
सहदेवस्तु पूजायां नकुलो द्र व्यसाधने ४
गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने
परिवेषणे द्रुपदजा कर्णो दाने महामनाः ५
युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः
बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ६
निरूपिता महायज्ञे नानाकर्मसु ते तदा
प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ७
ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु
स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः
चैद्ये च सात्वतपतेश्चरणं प्रविष्टे
चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् ८
मृदङ्गशङ्खपणव धुन्धुर्यानकगोमुखाः
वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ९
नार्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः
वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् १०
चित्रध्वजपताकाग्रैरिभेन्द्र स्यन्दनार्वभिः
स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ११
यदुसृञ्जयकाम्बोज कुरुकेकयकोशलाः
कम्पयन्तो भुवं सैन्यैर्ययमानपुरःसराः १२
सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा
देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः १३
स्वलण्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः
विलिम्पन्त्योऽभिसिञ्चन्त्यो विजह्रुर्विविधै रसैः १४
तैलगोरसगन्धोद हरिद्रा सान्द्र कुङ्कुमैः
पुम्भिर्लिप्ताः प्रलिम्पन्त्यो विजह्रुर्वारयोषितः १५
गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद्
देव्यो यथा दिवि विमानवरैर्नृदेव्यो
ता मातुलेयसखिभिः परिषिच्यमानाः
सव्रीडहासविकसद्वदना विरेजुः १६
ता देवरानुत सखीन्सिषिचुर्दृतीभिः
क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः
औत्सुक्यमुक्तकवराच्च्यवमानमाल्याः
क्षोभं दधुर्मलधियां रुचिरैर्विहारैः १७
स सम्राड्रथमारुढः सदश्वं रुक्ममालिनम्
व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव १८
पत्नीसम्याजावभृथ्यैश्चरित्वा ते तमृत्विजः
आचान्तं स्नापयां चक्रुर्गङ्गायां सह कृष्णया १९
देवदुन्दुभयो नेदुर्नरदुन्दुभिभिः समम्
मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः २०
सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः
महापातक्यपि यतः सद्यो मुच्येत किल्बिषात् २१
अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः
ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः २२
बन्धूञ्ज्ञातीन्नृपान्मित्र सुहृदोऽन्यांश्च सर्वशः
अभीक्ष्नं पूजयामास नारायणपरो नृपः २३
सर्वे जनाः सुररुचो मणिकुण्डलस्रग्
उष्णीषकञ्चुकदुकूलमहार्घ्यहाराः
नार्यश्च कुण्डलयुगालकवृन्दजुष्ट
वक्त्रश्रियः कनकमेखलया विरेजुः २४
अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः
ब्रह्मक्षत्रियविट्शुद्रा राजानो ये समागताः २५
देवर्षिपितृभूतानि लोकपालाः सहानुगाः
पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप २६
हरिदासस्य राजर्षे राजसूयमहोदयम्
नैवातृप्यन्प्रशंसन्तः पिबन्मर्त्योऽमृतं यथा २७
ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान्
प्रेम्णा निवारयामास कृष्णं च त्यागकातरः २८
भगवानपि तत्राङ्ग न्यावात्सीत्तत्प्रियंकरः
प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् २९
इत्थं राजा धर्मसुतो मनोरथमहार्णवम्
सुदुस्तरं समुत्तीर्य कृष्णेनासीद्गतज्वरः ३०
एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम्
अतप्यद्रा जसूयस्य महित्वं चाच्युतात्मनः ३१
यस्मिंस्नरेन्द्र दितिजेन्द्र सुरेन्द्र लक्ष्मीर्
नाना विभान्ति किल विश्वसृजोपकॢप्ताः
ताभिः पतीन्द्रु पदराजसुतोपतस्थे
यस्यां विषक्तहृदयः कुरुराडतप्यत् ३२
यस्मिन्तदा मधुपतेर्महिषीसहस्रं
श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम्
मध्ये सुचारु कुचकुङ्कुमशोणहारं
श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ३३
सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट्
वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ३४
आसीनः काञ्चने साक्षादासने मघवानिव
पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः ३५
तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप
किरीटमाली न्यविशदसिहस्तः क्षिपन्रुषा ३६
स्थलेऽभ्यगृह्णाद्वस्त्रान्तं जलं मत्वा स्थलेऽपतत्
जले च स्थलवद्भ्रान्त्या मयमायाविमोहितः ३७
जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयो परे
निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ३८
स व्रीडितोऽवग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम्
हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत्
बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ३९
एतत्तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया
सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ४०
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधनमानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः