कीर्तन मुक्तावली

स्तुति

मंगलाचरण

वंदे श्रीपुरुषोत्तमं च परमं धामाक्षरं ज्ञानदं,

वंदे श्रीप्रागजीभक्त-मेवमनघं ब्रह्मस्वरूपं मुदा ।

वंदे यज्ञपुरुषदासचरणं श्रीयोगीराजं तथा,

वंदे श्री प्रमुखं महंत-गुणीनम् मोक्षाय भक्त्या सदा ॥

 

स्तुति

श्रीमत्सद्गुण शालिनं चिदचिदिं, व्याप्तं च दिव्याकृतिम्,

जीवेशाक्षर-मुक्तकोटि सुखदं नैकावताराधिपम् ।

ज्ञेयं श्रीपुरुषोत्तमं मुनिवरै र्वेदादि कीर्त्यं विभुं,

तन्मूलाक्षरयुक्तमेव सहजानन्दं च वन्दे सदा ॥

 

ऊँ सहनाववतु सहनौ भुनक्तु, सहवीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विशावहै ॥

ऊँ शान्तिः शान्तिः शान्तिः ॥

 

गुणातीतोऽक्षरं ब्रह्म, भगवान् पुरुषोत्तमः ।

जनो जानन्निदं सत्यं, मुच्यते भवबन्धनात् ॥

 

ध्येयमंत्र

गुणातीतं गुरुं प्राप्य, ब्रह्मरूपं निजात्मनः ।

विभाव्य दासभावेन, स्वामिनारायणं भजे ॥

 

विदाय मंत्र

श्री हरिं साक्षरं सर्वदेवेश्वरं भक्ति-धर्मात्मजं दिव्यरूपं परम् ।

शान्तिदं मुक्तिदं कामदं कारणं स्वामिनारायणं नीलकंठं भजे ॥

श्री हरिम्॥

Kirtan Selection

Category